SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ४.६ कातन्त्रव्याकरणम् देदीप्यमानस्तत्र पदार्थान् वदतीत्यर्थः । यत्र भाषणं तत्रावश्यं ज्ञानेन भवितव्यमिति । कोऽस्मिन क्षेत्रे वदते । कः क्षेत्रविषयमुत्साहमाविष्करोतीत्यर्थः । कर्मकरानुपवदते तथा परानुपवदते । उपच्छन्दनं प्रलोभनम्, तच्चोपसान्त्वनान्न भिद्यते ।।४९२।४२। [वि० प०] ज्ञानयत्नोपच्छन्दनेषु वद । वदते पतञ्जलिर्व्याकरणे । ज्ञानपूर्वकं वदतीत्यर्थः । भाषणमपि ज्ञानपूर्वकमेवेति न पृथग् वाच्यम्, ज्ञानेनैव सिद्धत्वादिति । वदते कात्यायनो व्याकरणे। देदीप्यमानः पदार्थांस्तत्र वदतीत्यर्थः । यत्ने-क्षेत्रे वदते । क्षेत्रविषयं यत्नम् उत्साहमाविष्करोतीत्यर्थः । उपच्छन्दने - कर्मकरानुपवदते । उपच्छन्दनं प्रलोभनम्, तच्चोपसान्त्वनान्न भिद्यते इति । परदारानुपवदते इत्युपच्छन्दनेनैव सिद्धम् । वद इत्यधिकारस्तयोर्वेति यावत् ।। ४९२।४२। [क० च०] ज्ञान० । ननु पाणिनिसूत्रे शोभोपसम्भाषणोपसान्त्वनानां पृथगुपादानमस्ति । इह तदभावे का गतिरित्याह - भाषणमिति ।।४९२।४२। ४९२/४३. अनोरकर्मकः [दु० वृ०] अनोः परोऽकर्मको वदती रुचादिर्भवति । अनुवदते कठः कालापस्य | अनुशब्दः सादृश्ये । यथा अधीयानः कालापः पठति तथा कठ इत्यर्थः । पश्चादर्थे वा । कालापेन पूर्वमुदिते पश्चात् कठो वदतीत्यर्थः । अकर्मक इति किम् ? पूर्वमेव यदुदितं तदनुवदति । पुनर्वदतीत्यर्थः ।।४९२।४३ | [दु० टी०] अनोरकर्मक इति । अनुवदते कठः कालापस्य । यथा अधीयानः कालापः पठति तथा कठ इत्यर्थः । अकर्मक इति किम् ? पूर्वमेवानुवदति । पुनर्वदतीत्यर्थः ।। ४९२।४३। [वि०प०] अनोरकर्मकः। अनुवदते कठः कालापस्य । अनुशब्दः सादृश्ये, यथा अधीयानः कालापः पठति तथा कठोऽपीत्यर्थः । पश्चादर्थे वा - कालापेन पूर्वमुदिते पश्चात् कठो वदतीत्यर्थः । अकर्मक इति किम् ? पूर्वमेव यदुदितं तदनुवदति, पुनर्वदतीत्यर्थः ।।४९२ । ४३। [क० च०] अनोः । अत्र व्यक्तवाचामिति न स्मर्यत इति वररुचिर्जयमङ्गला च, तदप्रमाणम् । 'घोषस्यानुपदिष्टैव लङ्का दूतकृतः पुरा' इति भट्टौ लङ्काया व्यक्तवचनाभावादिति
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy