SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४३८ कातन्त्रयाकरणम् [दु० टी०] __ अधेः । शक्तौ वर्तमानात् कृतः । तम् अधिचक्रे । अन्य आह-शक्तौ कर्तरीति तम् अधिचक्रे इति तम् अभिबभूव, न च पराजितस्तेनेत्यर्थः । शक्तो हि परम् अभिभवति, न च परेण पराजीयते ।।४९२।२८। [वि०प०] अधेः । शत्रूनधिकुरुते, अभिभवतीत्यर्थः । शक्तो हि परान् शत्रून् अभिभवति । न च परैः पराजीयते । शक्ताविति किम् ? अधिकरोति राजा ।।४९२।२८। ४९२/२९. वेः शब्दकर्मकः [दु० वृ०] शब्द एव कर्म यस्येति विग्रहः । वेः परः शब्दकर्मकः करोती रुचादिर्भवति । क्रोष्टा विकुरुते स्वरान् । शब्दकर्मक इति किम् ? विकरोति मानसं वसन्तः । कर्म इति किम् ? शब्देन विकरोति मतिम् ।। ४९२।२९ । [दु० टी०] वेः शब्द ० । क्रोष्टा विकुरुते शब्दान् । शब्द इति किम् ? विकरोति मानसम् । शब्दकर्मक इति किम् ? शब्देन विकरोति मतिम् ।।४९२।२९। [वि० प०] वेः शब्द एव कर्म यस्येति विग्रहः । क्रोष्टा विकुरुते स्वरान् । शब्दकर्मक इति किम् ? विकरोति मानसं वसन्तः । कर्म इति किम् ? शब्देन विकरोति मतिम् ।।४९२।२९। ४९२/३०. अकर्मकश्च [दु० वृ०] वेरित्येव । वेः परोऽकर्मकः करोती रुचादिर्भवति । विकुर्वते सैन्धवाः । सिन्धौ भवा जाता वा अश्वाः शोभनं वल्गयन्तीत्यर्थः । ओदनपरिपूर्णाश्छात्रा विकुर्वते, निष्फलं चेष्टन्ते इत्यर्थः ।।४९२।३०। [दु० टी०] अकर्मक० । वेरित्येव । विकुर्वते सैन्धवाः। सिन्धौ भवा जाता वा अश्वाः शोभनं वल्गयन्तीत्यर्थः । ओदनपरिपूर्णाश्छात्रा विकुर्वते, निष्फलं चेष्टन्ते इत्यर्थः ॥४९२।३०। ४९२/३१. पूजोत्क्षेपणोपनयनज्ञानभृतिविगणनव्ययेषु नीञ् [दु० वृ०] एष्वर्थेषु नयती रुचादिर्भवति । पूजा सम्मानः । नयते शर्मा व्याकरणे।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy