SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ॥श्रीः॥ कातन्त्रव्याकरणम् [तृतीयो भागः] अथ तृतीये आख्याताध्याये प्रथमः परस्मैपादः ___४१७. अथ परस्मैपदानि [३।१।१] [सूत्रार्थ] धातुविहित 'ति' से 'स्यामहि' तक १८० प्रत्ययों की परस्मैपद संज्ञा होती है । इनमें से 'वर्तमाना' इत्यादि कालबोधक दश संज्ञाओं के अन्तर्गत प्रत्येक में १८१८ प्रत्यय होते हैं, परवर्ती सूत्र के अनुसार परवर्ती ९-९ प्रत्ययों की आत्मनेपद संज्ञा होने के कारण पूर्ववर्ती ९-९ प्रत्यय परस्मैपदसंज्ञक होंगे ।।४१७। [दु० वृ०] अथानन्तराणि त्यादीनि स्यामहिपर्यन्तानि परस्मैपदसंज्ञकानि भवन्ति । "नव पराण्यात्मने" (३।१।२) इत्युक्तिबाधया पूर्वाणि नवैव वचनानि सर्वासां विभक्तीनामिति । अर्थस्य विभञ्जनाद् विभक्तय इति । ति, तस्, अन्ति, सि, थम्, थ, मि, वस्, मस् । एवं सर्वत्र । परस्मैपदप्रदेशाः- “शेषात् कर्तरि परस्मैपदम्" (३।२।४७) इत्येवमादयः ।।४१७। [दु० टी०] अथ० । अथशब्दः प्रश्नानन्तर्यमङ्गलाधिकारेषु वर्तमानोऽप्यानन्तर्यार्थ एव गृह्यते, न्याय्यरूपत्वात् । आनन्तर्य पुनस्तद्धितमपेक्ष्य भवतीति मनसि कृत्वाहअथानन्तराणीति । ननु च विध्याद्यर्थस्यासंभवात् परिशिष्टमेतत् संज्ञासूत्रम्, न च संज्ञिपदान्यत्र श्रूयन्ते, संज्ञिनमन्तरेण च संज्ञा नोपपद्यते। न चाथशब्देनानन्तराणि त्यादीनि उच्यन्ते, निपातोऽयं स्वभावाद् द्योतक इति ? सत्यम्, येषामानन्तर्यमनेन द्योतितं तान्येव त्यादीनि संज्ञित्वेनावभासन्ते बहुवचनादभेदनिबन्धनादिति भावः । तर्हि किमथशब्देन, परस्मैपदमिति संज्ञित्वेनाधिक्रियतां यथा कृदिति ? नैवम्, व्यवहितानां
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy