________________
तृतीये आख्याताध्याये तृतीयो द्विवचनपादः ।
३२५ इत्यादिना स्थानिवद्भावेनाकारस्य व्यवधानाच्च । वे अभ्यस्तम्' इत्युक्ते व्यक्तिप्रधानत्वादेकस्याभावेऽन्यस्य संज्ञायां प्रयोजनाभावस्तस्माद् द्वयमिति युक्तम् ।। ५०२।।
[वि०प०]
द्वय० । ददतीति । डु दाञ्, अन्ति, द्विवचनम् | अभ्यस्तसंज्ञायाम् "अभ्यस्तानामाकारस्य"(३।४।४२) इत्याकारलोपः,"लोपोऽभ्यस्तादन्तिनः"(३।५।३८) इति च प्रवर्तते । ऐयरुरिति । 'ऋ गतौ' (१।२७५;२|७४), ह्यस्तन्यन्, पूर्ववद् द्विवचनम्, ऋवर्णस्याकारः, “अतिपिपाश्च" (३।३।२५) इत्यभ्यासस्येत्त्वम्, अन उस्, “सिजभ्यस्त०' (३।४।३१) इत्यादिना अन उसादेशः, "अभ्यस्तानामुसि" (३।५।६) इति गुणः, “अभ्यासस्यासवर्णे" (३।४।५६) इतीयादेशः, "स्वरादीनां वृद्धिरादेः" (३।८।१७) इति वृद्धिः । द्वयमित्यादि । सत्यपि पूर्वाधिकारे पूर्वस्यैवेयं संज्ञेति नाशक्यते, तस्याभ्याससंज्ञयैव व्यवहारसिद्धौ अभ्यस्तसंज्ञायाःप्रयोजनाभावात्, किन्तु पूर्वोऽभ्यासः, परोऽभ्यस्तम् इति स्यात् । अस्तु को दोषः, ह्वेञः कृतसम्प्रसारणस्य द्विर्वचने सिद्धं जुहूषतीति चेत् तदयुक्तम् । पूर्वमन्तरेण परो न सम्भवतीति पूर्वं द्विर्वचनेन भवितव्यम्, अतः परस्याभ्यस्तत्वे सम्प्रसारणं पूर्वस्य न स्यात्, द्वयम्-ग्रहणे तु द्वाववयवौ यस्य समुदायस्य तद् द्वयमिति सर्वस्य भवति ।। ५०२।
[बि० टी०]
द्वयम् । अभ्यास इतरश्च द्वाववयवौ यस्य समुदायस्य तद् द्वयमिति । ननु 'द्वे अभ्यस्तम्' इति कथं न कृतम् ? नैवम् । एवं सति द्विर्वचनस्य व्यक्तिप्रधानत्वात् प्रत्येक पूर्वस्य परस्य चाभ्यस्तसंज्ञायाः प्रयोजनं नास्ति । समुदायाश्रितत्वादभ्यस्तकार्यस्येति . अतो युक्तं द्वयमिति । तदुक्तं टीकायाम् - 'द्वे अभ्यस्तम्' इत्युक्ते व्यक्तिप्रधानत्वादेकस्याभावेऽन्यस्य संज्ञायां प्रयोजनाभावः, तस्माद्वयमिति युक्तमिति |ततः परोऽभ्यस्तमिति स्यादिति । ननु द्विर्वचनं प्रस्तुतमिति द्विरुक्तस्येत्युक्तम्, ततश्च द्विरुक्तमभ्यस्तमिति कथमर्थो न स्यात् ? नैवम्, पूर्वसूत्रे पूर्वसम्बन्धेन द्विरुक्तस्येत्यवयवावयविसम्बन्धे षष्ठी, अत्रापि तदनुवृत्तौ तदेव युक्तमित्यदोषः । द्वयम् – ग्रहणे तु सर्वस्यैव भवतीति । ननु कथमेतद् यावता "न सम्प्रसारणे" (३।४।१७) इति प्रतिषेधोऽस्ति, कथं पूर्वस्य परस्य च भवतीत्युच्यते ? सत्यम्, “न सम्प्रसारणे" (३।४।१७) इति निषेधदूरीकरणार्थम् अभ्यस्तस्य चेत्यत्राभ्यस्तनिमित्तमिहाभ्यस्तमित्युपचारं करिष्यति, तदैव कृतसम्प्रसारणस्य द्विर्वचनमित्युभयत्र सम्प्रसारणं सिद्धं तर्हि द्वयम् - ग्रहणेन किम्,तेनैवोपचारेण सिद्धेः ? सत्यम्, यदि द्वयम् - ग्रहणं न स्यात् तदाऽभ्यस्तनिमित्तप्रत्ययोऽभ्यस्तमित्युपचारोऽपि न स्यात् । यतस्तत्पक्षे (द्वयम् – ग्रहणाभावे) अभ्यस्तनिमित्तं मुख्यमभ्यास एव ।