SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३०८ कातन्त्रव्याकरणम् अनाद्यत्वमिति किं भवति ? नैवम्, अवयवस्य व्यपदेशिभावेन भिन्नोऽयं कश्चित्, न तु नकारापेक्षया तस्यानाद्यत्वमित्यर्थः । धात्ववयवोऽपि धातुरिति । एकस्वरस्येति बहुव्रीहिः किमित्यादि । ननु व्यञ्जनेन सह द्विवचनं भवतीति बहुव्रीहेः फलं दर्शितम्, तत् फलं 'पपाच' इत्यादौ बोद्धव्यम् । तत् कथं तेन 'दिदरिद्रासति' इत्युक्तम्, न चानेन द्विवचनफलेन दिदरिद्रासतीत्यर्थो घटते, न च वा तेन बहुव्रीहिणा दिदरिद्रासतीति फलस्योक्तत्वात् ? तथापि यथा दिदरिद्रासतीति, तथा पपाचेति वक्तुं युज्यते ? सत्यम्, बहुव्रीहेः फलमुक्तम्, इदानीमेकस्वरग्रहणस्य, तेनैकस्वरग्रहणेन दिदरिद्रासतीति, अत्रानेकस्वरस्य दरिभागस्य न द्विवचनमिति । तथा च वैयकारिका ___ उक्त्वा बहुव्रीहिफलं द्विरुक्तिं सव्यानस्योदितमेव वृत्तौ । एकस्वरेत्यस्य फलं दरिद्रो नान्यद् द्विरुक्तिर्हि दरोऽधिकस्य ॥ अस्याः - सव्यञ्जनस्य द्विरुक्तिं बहुव्रीहेः फलमुक्त्वा एकस्वरस्येत्यस्य फलं दरिद्राधातोर्दरोऽधिकस्य न द्विरुक्तिरूपं वृत्तावुदितमिति सम्बन्धः । वीप्सायां वर्तमानस्य पदस्येति । एतेन वीप्साभीक्ष्ण्ययोः पदस्येति न वाच्यम् । परैरिति । परमते परेर्वर्जने वाक्ये इति वाक्यग्रहणात् समासे न स्यात् । 'परि त्रिगर्तं वृष्टो देवः' इत्यस्मन्मतेऽपि द्योत्यग्रहणाद् वाक्ये स्यादिति । एकैकं जुहोतीति । एकैकमक्षरं जुहोतीत्यर्थः । वीप्सायां द्विवचनं सिद्धमेव, किन्त्वेकस्य सम्बन्धिन्या विभक्ते गित्यर्थः । तथा 'हा प्रिया मे' इत्यादि । एतेन 'आबाधे पुंवच्च' इति न वाच्यम् । आबाधः पीडा, तस्या द्विर्वचनं पुंवच्चेति चकारादादेश्च विभक्तेलुंगित्यर्थः । प्रियागमननाशादिपीड्यमानेन प्रयोक्त्रा प्रयुज्यमानो गतादिशब्दो द्विर्भावमापद्यते इति टीकायाम् । तथा पटुपटुरिति । यो हि पटुसदृशः स पटुरिति । अत्राप्यादेविभक्तेलुक् पुंवच्चेति वर्तते । सादृश्ये गुणवचनस्यापि द्विरुक्तिरादेविभक्तेलुक् पुंवच्चेति न वक्तव्यमिति दुर्गवाक्येनार्थपुरस्कारेणोक्तम्, यस्तु गुणे वर्तते तस्य न स्यात् । यथा सदृशं रूपमस्य, सदृशो रसोऽस्येति । कथं शुक्लशुक्लं रूपमस्येति ? नैवम्, गुणे गुणवति प्रवृत्तत्वात् । एवमन्येऽप्यनुसतव्या इति । ननु पचतिपचतितरामित्यादि वक्ष्यते, तत्कथं मध्ये एतदुक्तम् ? सत्यम्, तत्र पण्डितवार्तिकम् - यद् वक्ष्यमाणे विविधे स्थितेऽपि परानुसारो गदितोऽत्र मध्ये। प्रायोगिकत्वं खलु तस्य बोध्यं स्वेच्छावशं तत् परमूहनीयम् ॥
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy