SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्यातायाये तृतीयो बिचनपादः [वि० प०] द्विवचनम्० । धातोर्यशब्द इत्यतो धातुरनुवर्तते, ततोऽवयवावयविसम्बन्धे षष्ठीत्याह - धातोरवयवस्येति । द्विवचनमिति । “बित्रिचतुर्यः"(२।६।४०-१३) इति तमादिनिपातनात् "संख्याया बारे सव" इति सुन्प्रत्ययः । उक्तिर्वचनं द्विश्च तद् वचनं चेति द्विवचनम् । द्विरिति भिन्नं पदं वेति । द्वे उक्ती भवत इत्यर्थः । यद्येवम्, वचनग्रहणं किमर्थम्, 'सोपस्काराणि हि वाक्यानि' भवन्तीति । उक्तिशब्दाध्याहारेणायमर्थो लभ्यते, तस्मिंश्च सति तद्वाराभिधायी सुच् प्रत्ययोऽपि न कृतो भवति, तस्माद् द्वे इत्युच्यताम् इत्याह - वचनग्रहणमिति । उक्तिशब्दाध्याहारेण स्त्रियामयं निर्देश इति विषलिङ्गाभावाद् रूपशब्दमध्याहृत्य नपुंसके निर्देशोऽयम् इत्यपि शङ्का स्यात् । ततो धातोरवयवस्य स्थाने द्वे रूपे भवत इति वाक्यार्थोऽपि वा भवेत् । तथा च सति प्रकृतिभागस्य नष्टत्वाद् 'जिघांसति' इत्यत्र "अभ्यासाच" (३।६।३०) इति घत्वं न स्यात् । आदेशान्तरद्वयविधानेन प्रकृतेरुच्छेदाद् हन्तिरेवायं न भवति । तथा 'आटिटत्' इति कारितलोपश्च स्यात् । इह हि 'स्वरविषिः स्वरे बिर्वचननिमिते' इत्यादिना द्विवंचने कृते पश्चाल्लोपः कर्तव्य इति । तस्माद् घत्वं कारितलोपं च प्रति स्थानित्वं कस्येति या शङ्का तस्या निरासार्थं वचनग्रहणम् । तथापि बिर्वचनं बिअयोगो बिरुच्चारणमित्यर्वः सम्पद्यते, तेनोच्चारणस्यैव द्विर्वचनोच्चार्यस्यावयवस्येति, स हि स्वेन रूपेणावस्थित एव द्विरुच्चार्यते, न तु तस्य शब्दान्तरत्वमादिश्यते इति भावः । अथ स्थानिवद्भावेन हन्तेरादेशोऽपि हन्तिग्रहणेन गृह्यते पूर्वश्च भागोऽभ्यास इति । यद्येवम्, 'आटिटत्' इति न सिध्यति, न हि अयम् इन आदेशः, किन्तर्हि इनश्चान्यस्य चेति । अथोभयोः स्थाने यो निष्पद्यते स लभतेऽन्यतरव्यपदेशमिति दर्शनादिनोऽयमादेशः । यथा देवदत्तयोः पुत्रो देवदत्तस्येति तेनोपपद्यत एव स्थानिवद्भाव इति चेत्, एवन्तर्हि टेरेव लोपः कथं न भवतीति ? नैवम्, अनादेशस्य कारितस्येकारमात्रस्यैव लोपदर्शमादादेशेऽपि इकारस्यैव लोपो दृष्टकल्पनावशात् । एवन्तर्हि प्रतिपत्तिगौरवं स्यादित्याह - घत्वेत्यादि । अथ 'स्वरविषिः स्वरे बिवननिमित्ते कृते बिर्वचने' इति लिङ्गाद् वचनमेवाध्यारिष्यते इत्यपि गरीयान् पतः। जिघांसतीति। हन्तुमिच्छतीति सन्, "चण्परोक्षा०" (३।३।७) इत्यादिना द्विवचनम्, हो जः, "सन्यवर्णस्य" (३।३।२६) इतीत्त्वम्, "अभ्यासाच्च" (३।६।३०) इति घत्वम्, "हनिगमोः" (३।८।१३) इति उपधाया दीर्घत्वम् । 'आटिटत्' इति । अटेहेंताविन्,
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy