SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २४ कातन्त्रव्याकरणम् १. मङ्गलविधानम्, २. व्याकरणस्य परम्पराद्वयम्, ३. वर्णसमाम्नायः, ४. अव्याकृता वाक्, ५.व्याकरणशास्त्रीयप्रयोजनानि, ६. व्याकरणस्य चतुर्दशसहस्रसंख्याका विषयाः, ७. कातन्त्रव्याकरणस्य रचनायाः प्रयोजनादिकम्, ८. कातन्त्रव्याकरणे लोकव्यवहारस्य समादरः, ९. स्वरव्यञ्जनादयः पञ्च सन्धयः, १०. वाशब्दैश्चापिशब्दैर्वा सूत्राणां चालनैस्तथा । एभिर्येऽत्र न सिध्यन्ति ते साध्या लोकसम्मताः ।। ११. आदिलोपोऽन्तलोपश्च मध्यलोपस्तथैव च । विभक्तिपदवर्णानां दृश्यते शार्ववर्मिक ।। १२. भवेद् वर्णागमाद् हंसः सिंहो वर्णविपर्ययात् । गूढोऽऽत्मा वर्णविकृतेर्वर्णनाशात् पृषोदरम् ।। १३. आगमोऽनुपघातेन विकारश्चोपमर्दनात् । आदेशस्तु प्रसङ्गेन लोपः सर्वापकर्षणात् ।। १४. चं शे सूत्रमिदं व्यर्थं यत् कृतं शर्ववर्मणा । तस्योत्तरपदं ब्रूहि यदि वेत्सि कलापकम् ।।- एषां विस्तृतव्याख्या । १५. नामचतुष्टये षड्लिङ्गप्रकरणानि, १६. कारकम्, १७. समासप्रकरणम्, १८. तद्धितप्रकरणम्, १९. उपसर्गविचारः, २०. निपातनविधिविचारः, २१. प्रकृतिप्रत्ययविचारः, २२. पदविचारः, २३. शब्दार्थलाघवविचारः । २४. कातन्त्रेतिहासः, २५. व्याख्यासम्पत्तिः, २६. सम्प्रति विधेयानि कार्याणि चेत्यादि । कृतज्ञताप्रकाशनम् एतेन परमपूज्यान् आचार्यश्रीविद्यानन्दमहाभागान् सर्वात्मना वन्दनीयान् अभिनन्दनीयांश्च मन्ये । कातन्त्रसंगोष्ठ्या ः पूज्या माननीयाश्च सर्वे अध्यक्षाः सारस्वतविद्वांसःसंयोजकाःप्रतिभागिनो विद्वांसश्चापि नूनं धन्यवादार्हा भवन्ति ।अविस्मरणीयेभ्यः सर्वेभ्यस्तेभ्यो विद्वद्वर्येभ्यो धन्यवादान् वितरामि, ये कातन्त्रीयकार्यशालायां भागं गृहीतवन्तः। ___टीकाचतुष्टयसमीक्षादिसंवलितस्य कातन्त्रव्याकरणस्य महनीयप्रकाशनकार्यनिर्वाहाय संबद्धाः कुलपतिप्रभृतयः सर्वेऽधिकारिणो यशोभाजो भवन्ति । तदर्थं परममाननीयान् कुलपतिश्रीराममूर्तिशर्ममहोदयान्प्रति प्रणामाञ्जलिं निवेदयामि |माननीयाय कुलसचिवाय वित्ताधिकारिणे च महीयांसो धन्यवादाः प्रदीयन्ते । सुहृद्वर्यान् प्रकाशननिदेशकश्रीहरिश्चन्द्रमणित्रिपाठिमहोदयांश्च प्रति सुहृत्सम्मितसद्भाव
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy