SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २६८ कातन्त्रव्याकरणम् आत्मनेपदानीति बहुवचननिर्देश इहार्थस्तेनात्मनेपदानीत्यनुवर्तते । ततो यदि तन्मात्रमतिदेश्यं स्यात् तदा तत्रैव कर्मकर्तृग्रहणं कुर्यात् । तस्माद् बहुवचनान्ताद् आत्मनेपदग्रहणानुवृत्तिबलाद् भिन्नप्रकरणपठितयोः कानानशोरपि ग्रहणं व्यवस्थितवाधिकाराद्वा । वस्तुतस्तु व्यतिक्रमनिर्देशात् कानानशोरप्यतिदेशः । यद्येवम् 'भिद्यते कुशूलः स्वयमेव' इत्यत्रापि भिन्नप्रकरणबलाद् द्वितीयातिदेशो न भविष्यति, किन्तदर्थमुक्तार्थतापि कर्मकार्यमित्युक्तमिति ? सत्यम्, पाणिनिनापि द्वितीयातिदेशनिरासार्थं लकारान्ताश्रयणं यत् कृतं तद् व्यर्थम् । अस्मदुक्तयुक्त्यैव तन्निरासादिति कटाक्षितम् । वस्तुतस्तु तदपि सिद्धान्तान्तरम् । ननु कर्मकर्तरि कर्मवद्भावे तव्यादीनां कः प्रसङ्गः, येन प्रकरणाश्रयणं क्रियते, तस्मादपवादत्वात् केलिमप्रत्ययेन भवितव्यम् ? यथा ‘पचेलिमास्तण्डुलाः’ इति ? सत्यम्, विकार्ये केलिमस्तत्रापि प्रकृतिविशेष एवेति नापवादः । न वा केलिमार्थं वचनमस्माकम् अस्तीति कुलचन्द्रः | वस्तुतस्तु वासरूपविधित्वात् तव्यादीनामपि प्राप्तौ प्रकरणाश्रयणं युक्तमेवेति महान्तः । कर्मकर्तेत्यभेदादिति वृत्तिः । 'कर्मवत् कर्मणि कर्तरि' इति कृतेऽपि कर्मकर्तरि भविष्यति न च कर्मणि कर्मकार्यं भवति, कर्तरि च कर्मकार्यं भवति इति पृथगन्वयो भविष्यतीति वाच्यम् | कर्मणि कर्मवद्भावस्य वैफल्याद् विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वाच्च | अथ भिन्नविभक्तिनिर्देशे गौरवमिति चेत्, न । भिन्नविभक्तिनिर्देशात् । अत एव सूत्रादुत्तरत्र कर्तरीत्यनुवर्तमाने कर्तरीत्यस्य खण्डनात् । तस्मादेवमकृत्वा यदभेदघटितः कर्मधारयः क्रियते, तस्माद् यत्र भेदगन्धोऽपि नास्ति तत्र कर्मवद्भाव इति संक्षेपः । 'गच्छति ग्राममसौ स्वयमेव ' इति वृत्तिः । ननु यथा पादविहरणात्मिका गतिक्रिया कर्तरि समवेता न कर्मणीत्युच्यते, तदा 'लूयते केदारः स्वयमेव' इत्यत्राप्युद्यमननिपातनादिकर्तृविषय एव प्रतीयते न तु लूयमाने केदारे, तत् कथमिहाभेदः कल्पयितुं शक्यते, येन लूयते इत्यत्र भवति, गच्छतीत्यत्र न भविष्यति ? सत्यम् । अयमाशयःलवनक्रिया कर्मस्थापि प्रतीयते, गमनक्रिया तु कर्तृस्थैव प्रतीयते । तथाहि द्विधाभूतं केदारादिकं दृष्ट्वा यथा लवनक्रिया प्रतीयते, तथा देवदत्तेन गतमपि ग्रामं दृष्ट्वा गमनक्रियायाः प्रतीतिर्नास्त्येव, किन्तु गच्छन्तं देवदत्तं दृष्ट्वा गमनक्रिया प्रतीयते इति । एवमन्यत्राप्यूहनीयम् | तथा चाहु:क्रिया । कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः आस्यादेर्भावः (अस्यासिभावः) कर्तृस्थः कर्मस्था च गमेः क्रिया ॥
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy