SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः २६५ सत्यम् | कस्यचित् पच्धातोः प्रधानफलरूपो विक्लित्त्यादिरर्थभागः कर्मस्थः । कश्चिदिह गुणीभूतोऽधिश्रयणादिरर्थभागः कर्तृस्थ: । एवं भिदेरपि द्वैधीभावो ऽर्थभागः कर्मस्थः । खड्गोद्यमननिपातादिरर्थभागः कर्तृस्थः एवमन्येषामपि धातूनां बोध्यम् । तत्र यदा कर्तृस्थेष्वधिश्रयणादिषु सुकरत्वेन कर्मण्येवाध्यारोपितेषु धातुर्वर्तते तदा एकस्यैव कारकस्य कर्मत्वं कर्तृत्वं चेति । एतदुक्तं भवति । पचादिधातुवाच्यविक्लित्त्यादिकफलभागित्वेन कर्मत्वमध्यारोपिताधिश्रयणाद्याश्रयत्वेन च कर्तृत्वमिति । अतस्तुल्याधिकरणत्वात् कर्मधारयो न दुष्यति । ननु तथापि कथमेकस्य कारकस्य युगपद् उभयसंज्ञा । " कारयति यः स हेतुश्च" ( २।४।१५) इति चकारेण निराकृतत्वात् ? सत्यम् । “आत्मनेपदानि भावकर्मणोः” (३।२।४० ) इत्यत्र भावे कर्मणीति भिन्नविभक्तिनिर्देशादेवात्र विभक्तिविपरिणामेन कर्मणीत्यनुवृत्तिः सिद्धा । यत् पुनः कर्मकर्तेत्यत्र कर्मग्रहणम्, तद्भूतपूर्वकर्मप्रतिपत्त्यर्थम् । अत एव कर्तृसूत्रे टीकायां यदा कर्तृव्यापारेण व्याप्यमानः कर्म भूत्वा कर्ता सम्पद्यते तदा पुनः कर्मकर्तरि पच्यते इति भवतीत्युक्तम् । तथाहि पचादिधातुवाच्यविक्लित्त्यादिफलाश्रयत्वेन ओदनादेः पूर्वं कर्मत्वे जाते पश्चादधिश्रयणाद्याश्रयत्वेन विवक्षिते कर्तृत्वमुपजायते इति कर्मकर्तोच्यते । एतदनुसन्धानेनैव वृत्तौ क्रियमाणं त्वित्याद्युक्तम् । अयमर्थः- क्रियमाणं यद् ओदनादिकं कर्म तत् स्वयमेव प्रसिध्यति सिद्धं भवति कुत इत्याह- सुकरैरिति । स्वैरात्मीयैः कर्मगतक्रियास्वरूपैर्गुणैः कीदृशैः कर्तुः सुकरैः सुखेन क्रियमाणैरित्यर्थः । खल्प्रत्यययोगेऽपि कर्तुरित्यत्र षष्ठ्या; साधुत्वं सम्बन्धे विधीयमानत्वात् । अतो “न निष्ठादिषु ” (२।४ । ४३) इति न निषेधः, नञोऽनित्यत्वाद् वा । क्रियाफलस्वरूपैर्गुणैः कर्तुः सुकरैः सुखेन क्रियमाणैरित्यर्थः । तदित्यनेन यदित्यस्य परामर्शः, न तु कर्मकर्तृशब्दस्य पुंसा निर्देशाभावात् । 'लूयते केदार:' इति वृत्तिः । अत्र स्वयमेवेति विशेष्यबोधार्थमुक्तम्, न तु पदसाधनोपयोगित्वप्रदर्शनार्थं स्वयमेवेति पदं विनापि 'आयुः परं क्षीयते' इत्यादिप्रयोगदर्शनात् । एतेन लूयते केदार: इति कर्मणि व्युत्पाद्य स्वयंशब्दसम्बन्धेन कर्मकर्तृत्वप्रतीतिरर्थाद् भविष्यति किं सूत्रेण ? सत्यम्, प्रतिपत्तिगौरवनिरासार्थमिति कस्यचिन्निर्वचनमपि निराकृतमिति । ननु कार्यातिदेशोऽयमिति वक्ष्यति, ततश्च कर्मवद् भवतीत्युक्ते कर्मकार्यभाग् भवतीत्यर्थः सम्पद्यते । तच्च कर्मकार्यं धातौ लिङ्गे च दृश्यते । ततश्च यथा धातोः “आत्मनेपदानि भावकर्मणोः " ( ३।२।४० ) इत्यनेनात्मनेपदं स्यात्, तथा केदारात् कर्मकर्तरि कर्मबोधिका द्वितीयापि स्यात् । आत्मनेपदेनैव कर्मकर्तृत्वाभिधानाद् उक्तार्थत्वे
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy