________________
२५२
कातन्त्रव्याकरणम्
[दु० वृ०]
ज़्यादेर्गणान्नाविकरणसंज्ञकः परो भवति कर्तरि विहिते सार्वधातुके परे । क्रीणाति, प्रीणाति । स्तन्भु- स्तुन्भु-स्कन्भु- स्कुन्भु - स्कुभ्यो नुश्चेति वा वक्तव्यम् । स्कुञ् क्रैयादिकः, शेषाः सौत्रा धातवः । स्तभ्नाति, स्तभ्नोति । स्तुभ्नाति, स्तुभ्नोति । स्कुभ्नाति, स्कुभ्नोति । स्कभ्नाति, स्कभ्नोति । स्कुनाति, स्कुनोति ।।४८८।
[दु० टी०]
ना० । 'डु क्रीञ् द्रव्यविनिमये, प्रीञ् तर्पणे '(८1१,२) स्तम्भु इत्यादि । स्कुञो नित्यं नाविकरणे प्राप्ते शेषा इति चत्वारोऽप्युदनुबन्धपूक्लिशां क्त्वि इति वेटः । नैतद् वक्तव्यम्, स्वादौ ज़्यादौ च पाठाश्रयणात् सिद्धम् ।।४८८
[वि० प०]
ना ज़्यादेः । स्तन्भु इत्यादि वक्तव्यं व्याख्येयम् । इहापि ज़्यादौ स्वादौ च पाठाश्रयणात् सिद्धम् । स्तन्भुप्रभृतीनामनिदनुबन्धानामगुण इत्यनुषङ्गलोपः ।।४८८।
[क० च०]
ना ज़्यादेः । क्रीणातीति । 'डुक्रीञ् द्रव्यविनिमये, प्रीञ् तर्पणे कान्तौ च' (८1१, २) इति ज्यादौ । नाग्रहणं योगविभागार्थम् । तेन किं स्यादित्याह - तस्मिन्नित्यादि वररुचिवृत्तिः । पञ्यां तु उभयगणपाठाङ्गीकरणादेव सिद्धमित्युक्तम् । चकाराद् वा। स्कुञिति । स्कुञ् आवरणे क्र्यादिः । शेषा इति वृत्तिः। अमीषामुदनुबन्धबलात् सर्वविषयत्वम्, न त्वनुकरणमात्रविषयत्वमिति न्यासः । तन्मते तु उभयगणपाठाङ्गीकारादेव सर्वविषयत्वम् । तनादिक़्याद्योरुनाविति न कृतम्, नेत्यस्य किमकारान्तत्वम्, किं वा व्यञ्जनान्तत्वम् इति शङ्का स्याद् इत्युत्तरत्र च दोषः स्यात् ।।४८८।।
[समीक्षा _ 'डु क्रीञ् द्रव्यविनिमये' (८।१) आदि धातुओं से 'क्रीणाति' आदि शब्दरूपों के सिद्ध्यर्थ पाणिनि ने श्ना तथा शर्ववर्मा ने ना-विकरण का विधान किया है | पाणिनि का सूत्र है - "क्र्यादिभ्यः श्ना" (अ०३।१।८१)। श् अनुबन्ध की योजना "तिङ् शित् सार्वधातुकम्' (अ० ३।४।११३) से सार्वधातुकसंज्ञा के लिए की गई है।
[विशेष वचन]
१. शेषा इति वृत्तिः । अमीषामुदनुबन्धबलात् सर्वविषयत्वम्, न त्वनुकरणमात्रविषयत्वमिति न्यासः । तन्मते तूभयगणपाठाङ्गीकारादेव सर्वविषयत्वम् (क० च०)।