SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ तृतीये आध्याताध्याये बितीयः प्रत्ययपादः २४९ प्रतिपाद्यते । यदाह भाष्यकारः- 'प्रकृतिप्रत्ययौ प्रत्ययावं सह ब्रूतः' इति । तस्मिंश्च ताभ्यां प्रतिपाद्येऽर्थे विकरणानामर्थान्तरानिवेशत्वात् साहाय्यमेवार्थः । स च नशब्देनैव कृतः इत्युक्तार्थत्वादन्विकरणो न भवतीत्याह - प्रकृतीत्यादि ।।४८६। [क० च०] स्वरात् । परो नशब्द इत्यत्रानशब्द इति नाशङ्कनीयम्, भिनत्तीति ज्ञापकाद् अकारलोपस्यादृष्टकल्पनापत्तेः । अथ परग्रहणं किमर्थं चेद् रुधादेः स्वरात् पूर्वं कथं न स्यात् ? नैवम्, 'पञ्चम्या निर्दिष्टे परस्य' (कात० परि० २२) इति न्यायात् पर एव भविष्यति चेत्, न । तस्य हि स्थितस्य परस्य यत् किञ्चित् कार्यं विधीयते तत्रैव तस्य विषय इति । "प्रत्ययः परः" (३।२।१) इत्यत्र टीकापञ्जीकृयामुक्तं चेत्, तथापि "प्रत्ययः परः" (३।२।१) इत्यनेनैव परत्वं भविष्यति । अथ विकरणस्य प्रत्ययत्वं नास्तीति चेत्, न । कप्रत्ययवत् प्रकृतिप्रत्ययार्थस्य साहाय्यकर्तृत्वात् । अत एव टीकायां सत्यपि नशब्दस्य प्रत्ययत्वेऽसार्वधातुकत्वात् तस्यादिरिडागमो न भवति । धातोर्विहितस्यासार्वधातुकस्यादिरिड् भवन् कथं धात्वेकदेशाद् विहितस्यादिरिड् भविष्यतीत्युक्तम् । किं च पूर्वं न भविष्यति यावता निमित्तव्यवधानमिति चेद् अवश्यं व्यवधानमाश्रयणीयम् । तथाहि भिनत्तीत्यादौ दकारेण व्यवधानता, वचनादेकेन वर्णेन व्यवधानमाश्रीयते न त्वनेकेनेति, तर्हि परग्रहणमुत्तरार्थम् । तेन तनादेः परः इति विशेषणात् स्वरात् इति न सम्बध्यते । यदि पुनस्तनादिरुधाद्योः स्वराधनशब्दाविति अकरणादेव परसूत्रे स्वरादिति न वर्तते, तदा किं स्यादिति चेद् उच्यते- परग्रहणं विनात्र स्वरान्ताद् धात्वन्तराद् रुधादेरपि न-शब्दः स्याद् इत्यपि शङ्का स्यात् । वररुचिस्तु परग्रहणमिहार्थमुत्तरार्थं चेत्याचष्टे- शब्दग्रहणं सस्वरार्थमिति । अथ रुधादेर्विकरणान्तस्य लोप इति ज्ञापकात् सस्वरो ज्ञाप्यते, किं शब्दग्रहणेनेति चेत्, व्यञ्जनेऽपि नकारे कृते विकरणान्तस्य लोप इत्युक्ते भिन्दतीत्यादौ दकारस्य लोपो भविष्यति चेद् भिनत्तीतिनिर्देशात् । तर्हि ज्ञापकेन किमिह प्रत्याख्यातुं न शक्यते । पनी-प्रकृतिप्रत्ययाविति । ननु कथमेतत्, यावता 'आख्यातं क्रियाप्रधानम्' इत्यस्त्येव ? सत्यम्, भाष्यकारमतमवलम्ब्योक्तम् । स्वमते आख्यातेऽपि प्रत्ययान्वितस्वार्थबोधकत्वमङ्गीकर्तव्यमिति संक्षेपः। विशेषस्तु धातुसूत्रे व्याख्यातोऽस्माभिरिति ।। ४८६। [समीक्षा) 'रुधिर् आवरणे' (६।१) इत्यादि रुधादिगणपठित धातुओं से 'रुणद्धि, भिनत्ति' आदि प्रयोगों के सिद्ध्यर्थ पाणिनि ने 'श्नम्' विकरण तथा कातन्त्रकार
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy