________________
तृतीये आख्याताप्याये द्वितीयः प्रत्ययपादः
२२३ अशिश्रियत्, अदुद्रुवत्, असुनुवत् अचकमत, अचीकरत्, अपीपचत्, अलीलवत् । कर्तरीति किम् ? समाश्रयिषातां राजानौ देवदत्तन ।श्विधेटोर्वा वक्तव्यः-अशिश्वियत्, अश्वयीत्, अदधत्, अधासीत् ।। ४७६।
[दु० टी०]
श्रिद्रु० । सिचोऽपवादः । 'भज् श्रिञ् सेवायाम्, नु श्रु दु द्रु गतौ, कमु कान्तौ' (१।६०४, २७८, २७९; ४।१७; १।४०५)। श्यादिग्रहणम् अकारितार्थम् । "इनन्तेभ्यः' इति सिद्धे कारितग्रहणं कारितसंज्ञकादेव यथा स्यात्, तेन दण्डी इवाचरतीति आयेर्लोपे अदण्डायीत् । चणश्चकारः "चण् परोक्षा०" (३।३।७) इत्यस्य विशेषणार्थः, तेनापि द्विवचनं न भवति । अगमदिति णकारोऽगुणार्थः । “श्विधेटोर्वा" वक्तव्य इति । 'टु ओ शिव गतिवृद्ध्योः , घेट् पा पाने' (१।६१६, २६४) श्वयतेरण वक्ष्यति । श्वेरद् वक्तव्यः इति वचनात्-अश्वत् । धेटः सिचो लुगवचनाद् 'अधासीत्' इति रूपत्रयम् । कर्तरीति किम् ? अधिषातां स्तनौ वत्सेन ।।४७६ ।
[वि० प०]
श्रिद्रु० । 'भज् श्रिञ् सेवायाम्, सु श्रु दु द्रु गतौ' (१।६०४, २७८, २७९; ४।१७) एषां चणि स्वरादावित्यादिना इयुवौ । 'अचीकरत्, अपीपचत्' इति करोतेः पचतेश्च हेतोरिन्, चणि द्विवचनम्, “इन्यसमान०" (३।५।४४) इत्यादिना ह्रस्वः, “अलोपे समानस्य" (३।३।३५) इत्यादिना सन्वद्भावादभ्यासस्येत्त्वम्, "दी? लपोः" (३।३।३६) इति दीर्घः । 'श्विधेटोर्वा वक्तव्यः' इत्यधिकृतस्य वाशब्दस्य बहुलार्थत्वादित्यर्थः । अश्वयीदिति । शिवजाग्रोर्गुणः । अधासीदिति । “यमिरमि०" (३।७।२५) इत्यादिना इट, धातोरन्तः सकारः। "इटश्चेटि" (३।६।५३) इति सिचो लोपः ।।४७६।
[क० च०]
श्रिद्रु० । ‘इनन्तेभ्यः' इति सिद्धे कारितग्रहणात् ‘अचूचुरत्, अचोरयीत्' इति सिद्धम् ! अन्तग्रहणात् "श्विधेटोर्वा" इति वररुचिः। पजी-द्विर्वचनमित्यादि । ननु कथमत्र व्यतिक्रमः, यावता ह्रस्वं कृत्वैव द्विर्वचनस्यैव वक्तुं युक्तत्वात् । तथा च 'अचीकरत्' इत्यादौ द्विवचनह्रस्वयोः प्राप्तयोः परत्वाद् ह्रस्व इति काशिकादिः। "इन्यसमानलोपोपधायाः" (३।५।४४) इत्यत्र पञीकृताप्येवमुक्तम् । अन्यथा ह्रस्वाद् द्विर्वचनमेव प्राग् भविष्यति तदा मा भवान् ‘अटिटत्' इति । अत्राटेरिनि उपधाया दीर्घत्वे टिभागस्य द्विर्वचने सति उपधात्वाभावाद् "इन्यसमान०" (३।५।४४)