SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताप्याये द्वितीयः प्रत्ययपादः २१५ पश्चादुच्यमानः कथं पूर्वो व्यवहितो वा स्यादिति । कृभ्वस्तीनां सोपसर्गाणामनुप्रयोगो भवत्येव । न चोपसर्गेण व्यवधानं पाचयांप्रचकारेति । तथा च 'उतां प्रचकुर्नगरस्य मार्गान्' इति प्रयोगो दृश्यते, तस्माद् अनुप्रयोगविधानं प्रतिपत्तिगौरवनिरासार्थमेव । कश्चिद् आह - नावश्यं प्रयोगः पुरुषोपग्रहादयो विवक्ष्यन्ते इति क्रियामात्रमेवार्थः स्यात् । अपर आह - प्राकरणिकाः कालादयः स्युरिति पुरुषापरापाद् विपरीतप्रयोगोऽपि सम्भाव्यते । इतर आह, कृञादयोऽन्यत्र परिपूर्णक्रियासाधनसम्बन्धाः स्वरूपोपात्तार्थप्रतिपादका एव दृश्यन्ते नान्यपरोपगृहीतार्थाद्योतकाः, तस्मात् परिसमाप्तार्थानामनुप्रयोगो न स्यादिति वचनम् ।।४७३ । [वि० प०] अस्भु० । 'ईक्षामास, ईक्षाम्बभूव' इति ईक्षरात्मनेपदित्वात् परोक्षाया ए, तत आमन्तस्य अस्भुवौ द्विवचनम् एकत्र "अस्यादेः सर्वत्र" (३।३।१८) इत्यभ्यासे दीर्घत्वम् । अन्यत्र "भवतेरः" (३।३।२२) इत्युकारस्यात्वम् । “भुवो बोऽन्तः" (३।४।६२) इत्यादिना आत्मनेपदस्य च परस्मैपदादेशः अट् । अर्थस्यान्तरतम्यादिति । परस्मैपदं हि "शेषात् कर्तरि परस्मैपदम्" (३।२।४७) इति कर्तरि विधीयते, तेनात्मनेपदस्यापि कर्तर्येव विहितस्य परस्मैपदादेश इत्यर्थः । तेन कर्मणि भावे च न भवतीति । तथा 'ईहांव्यतिबभूवे छात्रः' इत्यनियम इत्यादिरुचादिवचनाद् व्यतिहारे विहितस्य न भवति । प्रकृतेरित्यादि । प्रकृतावानर्थक्यादिति हेतुः । न च कृञ् चेति संबन्धो युज्यते तस्य पूर्वेणैव सिद्धत्वादिति । परस्मैपदादेशार्थमित्यपि न वक्तव्यम्, पृथग् वचनात् । अत एवादेशेन सह सम्बध्यते चकारः । ततश्चादेशोऽयमन्वाचयशिष्ट इत्यन्तरेणापि परस्मैपदादेशम् | अभुवौ प्रधानवाक्यनिर्दिष्टौ भवत एवेति । विद इत्यादि । एतत्तु “पातोर्वा" (३।२।४) इत्यतो मण्डूकप्लुतिवाधिकाराद् वेदितव्यम् । विदांकरवाणीति । विद + आनि + आम्, कृअनुप्रयोगः, तनादेरुः, करोतेरिति नाम्यन्तलक्षणो गुणः, अवादेशः, णत्वं च ।।४७३। [क० च०] अस्० । ननु सिचि परस्मै इतिवदत्रापि निमित्तसप्तमी कुतो न स्यात्, ततश्च परस्मैपदे परे अस्भुवोरनुप्रयोगेण कृञोऽनुप्रयोगो बाध्यतां चेत् तर्हि चकारो व्यर्थः स्यात् कार्यद्वयाभावेन समुच्चीयमानार्थाभावात्, नैवम् । कृञोऽनुवर्तनेन चकारस्य सफलत्वात् चेत्, न । पूर्वेणैव सिद्धत्वेन कृञोऽनुवर्तनस्य विफलत्वात् । ननु पूर्वेण आत्मनेपदे प्राप्ते अनेन च परस्मैपदप्राप्त्यर्थं कृञोऽनुवर्तनं भविष्यति ? सत्यम् । यदि परस्मा इति निमित्तमेव भविष्यति, तदा कार्यात् पूर्वमेव निर्दिशेत् ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy