SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः २०७ 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (का० परि० ३१) इति, सत्यम् । एवं सति प्रक्रियागौरवं स्यात् । व्यवस्थितेत्यादि । केचिद् अनृच्छ्वोरिति पठन्ति । ऋच्छेनम्यिादेरुकारान्तस्य च न भवतीत्यर्थः ।।४६९। [वि० प०] नाम्यादेः । कथमित्यादि । इयेरटि द्विवचनम्, “नामिनश्चोपधाया लघोः" (३।५।२) इति गुणः "अभ्यासस्यासवर्णे" (३।४।५६) इतीयादेशः । इह गुणे कृते गुरुमत्त्वादाम् प्राप्नोतीति देश्यं निरसितुमाह - नायमित्यादि । 'गुरुमतः' इति नित्ययोगे मन्तुरयं धातुसंज्ञामारभ्य यो धातुर्नित्यं गुरुमान् तत इत्यर्थः । अथ लाक्षणिकत्वादेवात्र न भवतीति कथं नोक्तम् ? सत्यम् । ऋच्छेः प्रतिषेधस्य लाक्षणिकस्य परिग्रहार्थत्वात् । अन्यथा "द्विर्भावं स्वरपरश्छकारः" (१।५।१८) इति छस्य द्वित्वे गुरुमत्त्वात् कुतोऽस्य प्रसङ्गः । अत एवोदाहृतम् । उञ्छाञ्चकार इति । उछि उञ्छे इदनुबन्धत्वान्नागमे सति लाक्षणिकस्यापि भवतीत्यर्थः । ननु यदि नित्ययोगे मन्तुरयम्, तदा लाक्षणिकपरिग्रहे कथम् उञ्छाञ्चकारेति नकारस्य लक्षणतः संसङ्गित्वात् ? तदयुक्तम्, धातुसंज्ञामारभ्येति यदुक्तम्, सा चोपदेशावस्थायामेव धातुसंज्ञा | नकारोऽप्यनपेक्षितपरनिमित्तकस्तस्यामेवेति नित्ययोगो न विहन्यते । गुरुमद्ग्रहणस्य प्रत्युदाहरणम्-अहम् इयज, अहम् उवप इति । अट्युत्तमे यजिवप्योः “परोक्षायामभ्यासस्योभयेषाम्" (३।४।४) इति सम्प्रसारणे नाम्यादित्वमुपधाया दीर्घविधौ तु अट्युत्तमे वेति वचनात् पक्षे गुरुमत्त्वाभावः । आनछेति । ऋच्छ् गतीन्द्रियप्रलयमूर्तिभावेषु द्विर्भावम् इत्यादिना छस्य द्वित्वम्, ततोऽट्, द्विर्वचनम्, ऋवर्णस्याकारः, “अस्यादेः सर्वत्र" (३।३।१८) इति दीर्घः, "ऋच्छ ऋतः" (३।६।१७) इति परस्य ऋकारस्य गुणः, तस्मान्नागमः परादिरन्तश्चेत् संयोग इति न्वागमः। अथेह परत्वादन्तरङ्गत्वाच्च "ऋछ ऋतः" (३।६।१७) इति गुणे कृते नाम्यादित्वाभावाद् आम् न भवतीति किम् ऋच्छे: प्रतिषेधेन ? नैवम् । लाक्षणिकपरिग्रहणार्थमित्युक्तमेव । कथमन्यथा उञ्छाञ्चकारेति स्यादिति । प्रोणुनावेति । प्रपूर्वक ऊर्गुञ् आच्छादने अट्, “स्वरादेर्द्धितीयस्य" (३।३।२) इति नुशब्दस्य द्विवचनम्, रेफस्य न द्विरुच्यते । “न नबदराः संयोगादयोऽये" (३।३।३) इति प्रतिषेधात्, “अस्योपधायाः" (३।६।५) इत्यादिना वृद्धिरिति ।।४६९। [क० च०] नाम्यादेः । ‘स्वरविधिः स्वरे' इति वचनबलाद् द्विवंचने कृते गुणे सति गुरुमत्त्वाद् आम् स्यादिति पूर्वपक्षः। 'उवोष' इति प्रमादपाठोऽयम् । “उषविद०"
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy