SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १९७ तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः प्रतिपत्तये भविष्यति, अन्यथा कामिनञ्-धातोर्नकारो व्यर्थ: स्यादिति । कमिस्तु सार्वधातुके नाभिधीयते । व्यवस्थितेत्यादि । आयादय इत्यादिग्रहणं परमतदर्शनार्थम् । इह णीयङ्इनङोरनभिधानादाय एव परिशिष्यते । असार्वधातुके इति विषयसप्तमीयं ततो बुद्धिस्थमसार्वधातुकमाश्रित्यायप्रत्यये सति “शंसिप्रत्ययादः" (४।५।८०) इत्यायप्रत्ययान्तत्वात् ‘गोपाया' इति अ-प्रत्ययः सिद्धो भवति । गुप्तिरिति पक्षे "स्त्रियां क्तिः" (४।५।७२) इति । कामयितेति कामिनधातुना कमितेति कमु कान्तावित्यनेन ऋतीयितेति ऋतीयङ् धातुना, अर्तितेति च सौत्रेण ऋतधातुना सिद्धमिति ।।४६५ । [क० च०] गुपू० । आयस्याकारकरणादिन्यसमान इत्यादिना चणि न ह्रस्वः। यथा अजुगोपायदिति । ऊदनुबन्धकरणाद् गुप् रक्षणे इत्यस्य ग्रहणम्, अन्यथा गुप गोपनकुत्सनयोरित्यस्य ग्रहणाद् गोपनेऽपि आयः स्यादिति दोषः । 'लिश विच्छ गतौ' (५।५६) इति तौदादिकस्य ग्रहणं भौवादिकस्तु नास्त्येव विच्छ धातुरिति चेत् किमर्थं तुदादौ विच्छिः पठ्यते । न च तुदादेरनीत्यगुणार्थमिति वाच्यम् । स्वरपरस्य छकारस्य द्विर्भावे उपधोपधत्वात् सिद्धं चेत्, अस्ति प्रयोजनम् – “तुदभादिभ्यः" (२।२।३१) इत्यनेनान्तेरनकारकत्वमिति चेत्, न । आयप्रत्ययेन व्यवधानाद् अनकारकत्वप्राप्तेरभावात् । तदा विच्छिपाठसामर्थ्यात सार्वधातुकेऽपि आयो विकल्प्यते, तेन च विच्छायति, विच्छति । विच्छती, विच्छन्ती, विच्छायन्तीति सिद्धम् भवति । __अन्ये तुदादिपाठसामर्थ्याद् आयव्यवधानेऽपि अन्तिरनकारको भवतीत्याह - तन्मते विच्छायती विच्छायन्तीति । ननु यदि भौवादिको विच्छधातु स्ति, तत्कथं टीकायाम् – केचित्तु धूपविच्छौ चुरादावपि पठन्ति, तयोर्विकल्पेनन्तयोभॊवादिकेन गुपधातुना साहचर्याद् धूपति विच्छतीति भवतीति सिद्धमित्युक्तम् ? सत्यम् । भौवादिकपदमचौरादिकपरं वोध्यम् । अथ यदि विच्छधातुरचौरादिकोऽप्यस्ति तदा तत्रैव आयप्रत्ययस्य चरितार्थत्वात् कथं तुदादेरायो विकल्प्यते । न च साहचर्यादिति वाच्यम्, साहचर्यस्यैव सम्बन्धस्वरूपत्वात् । न च चुरादेविच्छेरायप्रत्यये विच्छतीति कथं भविष्यतीति वाच्यम्, तुदादिधातोरेवैतत्सिद्धेः ? सत्यम् । व्यवस्थितवाऽधिकारात् सर्वमनवयमिति ब्रूमः ||४६५। [समीक्षा] 'गुपू' आदि पाँच धातुओं से ‘गोपायति, धूपायति' आदि रूपों के सिद्ध्यर्थ कातन्त्र तथा पाणिनीय दोनों ही व्याकरणों में 'आय' इस निरनुबन्ध प्रत्यय का
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy