SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १८४ कातन्त्रव्याकरणम् ननु तथापि कथम् अन्त्यस्वरादिलोपो लुप्तस्याश्वादिशब्दस्यासिद्धवद्भावाच्चेत्, न । 'स्वरानन्तर्ये नासिद्धवद्भावः' इति न्यायात् । अथ गालोडितशब्दस्येतलोपे कृते पुनरन्त्यस्वरादिलोपे कर्तव्ये ओड्भागस्य लोपे कृते गालयतीत्येव स्यात् न तु गालोडयतीत्युच्यते - गालोडो वाचां विकारः सञ्जातोऽस्यास्तीत्यर्थे तारकादित्वादितच्प्रत्यये सति इवर्णावर्णयोरित्यादिना गालोडशब्दस्याकारलोपे सति गालोडित इति सिद्धमास्ते । इदानीं तु इतशब्दस्य लोपे निमित्ताभावात् लोपनिवृत्तौ गालोडशब्दोऽकारान्तः समायातः, न च गालोड ः सञ्जातोऽस्येति इतच्प्रत्ययस्तस्मिन् लुप्तेऽपि प्रत्ययलोपलक्षणन्यायात् पुनरिवर्णावर्णयोरित्यादिना अकारलोपे कृतेऽस्य विषयः इति वाच्यम् । यथा तस्य प्राप्तिस्तथा परत्वादस्यापि प्राप्तिस्ततश्चान्त्यस्वरादिलोपे कर्तव्येऽकार एव लुप्यते, न त्वोङभाग इति । नाप्यत्राप्यसिद्धवद्भावः स्वरानन्तर्ये इति तस्य निषेधात् । ननु अकारलोपे 'यावत्सम्भवस्तावद् विधिः' (का० परि० ५४ ) इति न्यायात् पुनरन्त्यस्वरादिलोपः स्यात् । यथा 'त्वया, मया' इत्यादौ " एषां विभक्तावन्तलोपः” (२।३।६) इति ? सत्यम्, अकारलोपस्यासिद्धवद्भावान्न दोषः । ननु किमर्थमिदं सूत्रम्, “इन् कारितं धात्वर्थे” (३ । २ । ९) इत्यत्रेन्ग्रहणमकृत्वा डिन् विधीयताम् । अतो “डानुबन्धेऽन्त्यस्वरादिलोपः " ( २ । ६ । ४२ ) इत्यनेन अतिहस्तयतीत्यादिकं सिद्धम् | यद्येवं विंशतिशब्दादपि डिनि परे " तेर्विशतेः " (२ । ६ । ४३) इत्यादिना तिशब्दस्य लोपः स्यात् । अपि चानेकाक्षरग्रहणस्याभावाद् वाचयतीत्यादावपि अन्त्यस्वरादिलोपः स्यात्, तदा एतद्दोषपरिहारार्थं ङानुबन्ध इत्यस्यानन्तरं न विंशत्येकस्वराभ्यामित्यपरं सूत्रं विधीयताम् ? सत्यम्, सुखार्थमिति कश्चित् । किं च सभाजधातोरन्त्यस्वरादिलोपे सभाजयतीत्यस्यासिद्धिरिति । अथ " धातोश्च हेतौ” (३।२।१०) इत्यत्रापरमिन्ग्रहणं कर्तव्यमिति । एषां पण्डितानां सिद्धान्तेन सूत्रमिदं सुखार्थमिति वक्तुं शक्यते । यदि डिनिनोर्विधानकल्पने गौरवं न मन्यते इति । ईदृशं तु गौरवं “शिन्चौ वा " (१।४।१३ ) इति स्फुटीभूतमस्तीति संक्षेपः || ४६२ | [समीक्षा] 'हस्तिना अतिक्रामति' अर्थ में 'अतिहस्तयति' तथा ' वीणया उपगायति' अर्थ में ‘उपवीणयति' शब्द सिद्ध करने के लिए कातन्त्रकार ने इन् प्रत्यय से पूर्ववर्ती लिङ्ग में अन्त्य स्वरादि भाग का लोप स्वतन्त्र प्रकृत सूत्र द्वारा किया है, जब कि पाणिनीय व्याकरण में पृथक्-पृथक् सूत्रों द्वारा लोप कार्य होता है ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy