SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः १७७ रायत्तत्वाद् व्यधिकरणतयार्थः पर्यवस्यति । एतदेवाह – हेतौ यो धात्वर्थ इति चेत्, तथापि गौरवं तदनुवर्तनं विनापि साध्यस्य सिद्धेरिति । ___ वयं तु हेतौ यो धात्वर्थस्तस्मिन् वर्तमानाद्धातोरित्युक्ते भिक्षा वासयतीत्यादौ भिक्षधातोरेव प्रत्ययः इत्यापि सन्देहः स्याद् इति अस्वरसबीजं ब्रूमः । कंसस्य कर्मत्वमिति, ननु कथमेतत् । कंसस्य कर्मत्वेऽपि कथं द्वितीया कृप्रकृतेर्यादृशं कारकम्, इनन्ताया अपि तादृशस्योक्तत्वात् षष्ठी प्राप्नोतीति तत् समासः । किं च राजानमागमयतीति । अत्र कृप्रकृतौ राजा कर्ता, इनन्तायां सत्यां ध्रौव्यगतिशब्देत्यादिना कर्म कथं स्यात् ? सत्यम् । प्रकृतिवच्च कारकम् इत्युक्तावपि “गतिबुद्धि०" (अ० १।४।५२) इत्यादिना प्राप्तं कर्मत्वादिकं न बाध्यते, प्रकृतिभावस्यान्यथोपपत्तौ बाधानौचित्यात् । तर्हि प्रकृतिभावेन किं कृतमिति चेदुच्यते - कृल्लुगित्यनेन कृयत्ययस्य लुप्तत्वादेव 'लुग्लोपे न प्रत्ययकृतम्' (कलाप० २२२, ६९) इति न्यायात् पुनः षष्ठ्यादि कार्यं न भविष्यति । प्रकृतिप्रत्यापत्तिग्रहणाच्च धातोः स्वरूपेणावस्थानात् समासनिवृत्तिर्भविष्यति । तथा च यत् कारकस्य प्रकृतिभावो विधीयते तदिदमेव बोधयति । तथाहि कंसवधादिशब्दादिनि कृते समुदायस्यैव धातुसंज्ञत्वात् तत्पूर्वमेवाडागमद्विर्वचनादिकार्यं स्यात् । तदा च 'कंसमजीधनत, राजानमजीगमत्' इत्यादिकं न सिध्यति । प्रकृतिवद्भावात् पुनः कारकस्य कारकत्वमेव न तु धात्ववयवत्वमिति | चकारात् प्रयोगानुसारेणान्यत्रापि स्वार्थे इन् भवति । तथाहि - 'दशवर्षसहस्राणि रामो राज्यमचीकरत्' (वा० रा० १।१।९७) इति । तथा 'दशास्यं घातयित्वा तु रामो यास्यति मन्दिरम्' इति वररुचिः । अन्ये तु "हन्त्यर्थाश्च" इत्यत्र चकाराद् गणान्तरपठिता अपि धातवश्चुरादौ वेदितव्या इत्याहुः ।। ४६०। [समीक्षा ] 'कुर्वन्तं प्रयुङ्क्ते' अर्थ में 'कारयति' तथा 'पचन्तं प्रयुङ्क्ते' अर्थ में 'पाचयति' आदि शब्दों के साधनार्थ कातन्त्रकार ने धातु से इन् प्रत्यय तथा पाणिनि ने णिच् प्रत्यय का विधान किया है - "हेतुमति च" (अ० ३।१।२६)। अनुबन्धों की योजना उभयत्र अपने-अपने व्याकरण के अनुसार की गई है । अतः उभयत्र समानता ही दृष्ट होती है। [विशेष वचन] १. तथा च किं गतेन, हतः कंस इति लोकविवक्षा (दु० वृ०)। २. फलसाधनयोग्यः पदार्थो लोके हेतुरुच्यते, तस्य ग्रहणेऽध्ययनेन वसतीत्यत्रापि स्यात्, तस्मात् कारयति यः स हेतुश्चेत्यस्य ग्रहणम् (दु० टी०)।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy