SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १६० कातन्त्रव्याकरणम् भिधीयते । कप्टायेत्यादि । अत्राप्याचारार्थे आयिरिति, इह कष्टादय : शब्दास्तदवति मन्तव्याः । ततो यो हि कष्टाय कर्मणे क्रामति स कष्टवानिवाचरति प्रवर्तते इति नार्थो भिद्यते । परस्यापि क्रमणं प्रवर्तनमेव न तु पादविहरणमिति भावः । वृत्तौ तु परमतानुवादः कृतस्तस्मात् कष्टादिभ्यः पापवृत्तिभ्यश्चतुर्थ्यन्तेभ्यः क्रमणेऽर्थे आयिर्न वक्तव्य इत्यर्थ: । कष्टाय तपसे क्रामतीति कष्टशब्दोऽयं तद्वति पुरुषे वर्तते तेनाचारार्थोऽपि न घटते इति भावः । रोमन्थमित्यादि । इह रोमन्थवर्तने रोमन्थायधातुः, वर्तनं श्लक्ष्णीकरणम् । यथा कुङ्कुमं वर्तयति ।। रोमन्थायते गौरिति । यदभ्यवहतं तत् पुनराकृष्य चर्वयतीत्यर्थः । हनुचलन एवेति हनुर्वदनैकदेशस्तस्य चलन एव भवति । इह न स्यात् - कीटो रोमन्थं वर्तयतीति । उद्गीर्य बहिस्त्यक्तमवगीर्णं वा पृष्ठान्तेन निर्गतं रोमन्थाख्यं द्रव्यं वर्तयति । गुटिकां करोतीत्यर्थः । तेनात्र हनुचलनं न विद्यते पूर्वत्र तु विद्यते चर्वणस्य हनुचलनार्थकत्वादिति । तेन रोमन्थं वर्तयति हनुचलन इति सूत्रं न वक्तव्यम् । अस्मिन्नर्थे रोमन्थायधातो: समर्थितत्वादिति । तथा बाष्पमुद्वमतीत्यर्थे बाष्पायधातुः । एवमिति ऊष्माणमुद्वमतीति फेनमुवमतीति । धूममुद्वमतीत्यर्थेऽपि केनचिद् धूमाय - धातुरिष्यते । तथा 'धूमायन्त इवाश्लिष्टाः प्रज्वलन्तीव संहताः' इति । सुखादीनीत्यादि । सुखाद्यनुभवनक्रियायां सुखायादयो धातव इत्यर्थः । 'सुखाय, दुःखाय, तृप्ताय, अस्राय, आस्राय, अलीकाय, करुणाय, हलाय, सोढाय, प्रतीपाय, कृच्छ्राय, कृपणाय । शब्दादीनीत्यादि । इहापि शब्दादिकरणक्रियायां शब्दायादयो धातव इति । 'शब्दाय, वैराय, कलहाय, अभ्राय, कण्वाय, कण्ठाय, सुदिनाय, दुर्दिनाय, नीहाराय, अटाटाय, अष्टाय, श्रीकराय, शीकराय, कोटाय, पोटाय, अश्वाय, स्फोटाय, सोटाय, पूज्याय, उद्वाय, वेगाय, मेघाय, पृष्ठाय, अह्नाय, युद्धाय, रोगाय' | एते रोमन्थादयो धातवो रुचाद्याश्रयणादात्मनेपदिनः । नम इत्यादि । अत्रापि नमस्यधातु: पूजायाम्, तपस्यधातुः सन्तापादौ, वरिवस्यधातुः परिचर्यायामित्यर्थः । चित्र आश्चर्ये इति टुकार आत्मनेपदार्थः । विस्मयक्रियायां चित्रीयङ् - धातुरित्यर्थः । कण्ड्वादिभ्यो यरिणति । एतदपि न वक्तव्यम्, कण्ड्वादिक्रियायां कण्डूयप्रभृतयो धातव इति । 'कण्डूयञ्, मन्नूय, मण्डकञ्, मन्तूय, असूयञ्, कली यङ्, महीय. ऋणीय, हणीयङ्, वल्गय , वैध, नायज बेट्य, नट्य, नाट तरस्य, इरस्य, इरज्य. इयंत्र, उरस्य, जामा ... बन्नस्य, लेट्य लेट्य, केलाय, खेलाय. लाट्य, पाय, कुन ... राय, निर्य, अमर्य, अर्व
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy