SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १० कातन्त्रव्याकरणम् [मङ्गलार्थम् - १] ३८. अथशब्दाभावपक्षे "न य्वोः पदाद्योर्वृद्धिरागमः " ( २।६।५०) इत्यत्र वृद्धिग्रहणं मङ्गलार्थं भविष्यति (क० च० ३ | १ |9 ) । [ मन्दमतिबोधार्थम् - ४] ३९. मन्दधियां बोधार्थमिति धातुग्रहणम् (दु० टी० ३ |२| ४) । ४०. ‘काम्य’ इत्यविभक्तिकनिर्देशो मन्दमतिबोधार्थ : (दु० टी० ३।२।६) । ४१. यच्चेक्रीयितग्रहणं तन्मन्दमतिबोधार्थम् (दु० टी० ३ | ३|१४) । ४२.यच्चेक्रीयितग्रहणं तन्मन्दमतिबोधार्थमिति टीकायाम् (बि० टी०३ | ३|१४)। [ योगविभागार्थम् - ४] ४३. ‘इच् ते पदेः' इति सिद्धे गुरुकरणं योगविभागार्थम् (दु० वृ० ३।२:२९) । ४४. व्यतिक्रमनिर्देशादपि योगविभागः सिध्यति (क० च० ३।२।२९)। ४५. नाग्रहणं योगविभागार्थम् (क० च० ३।२।३८) । ४६.तस्माद् वर्णग्रहणं दीर्घार्थमिति कथं योगविभागार्थमिति ? (बि०टी० ३।३।२७) । [ रूढ्यर्थम् १] - ४७. प्रयुज्यमानग्रहणस्य द्व्यर्थ :- रूढ्यर्थो योगार्थश्च (क० च० ३ | १ | ५) । [ लाघवार्थम् - १] ४८. लाघवार्थं कर्तृत्रितयबोधनार्थमेव वयमपाक्ष्म इत्युक्तवान् इत्यदोषः (क० च० ३|१|४) । [विचित्रार्थम् - ३] ४९. विचित्रार्थमित्यपरे (क० च० ३।१।२८) । ५०.विप्रतिपत्तिः परिहृता भवति ? सत्यम् । विचित्रार्थमिति (क० च० ३ । १ । ३२) । ५१. वर्गग्रहणं वैचित्र्यार्थम् (दु० टी० ३ | ३|१३) । [विप्रतिपत्तिनिरासार्थम् - १] ५२. प्रत्येकमादिशब्दः पुषश्च द्युतादिश्चेति विप्रतिपत्तिनिरासार्थः (दु० टी० ३।२।२८) । [विभाषाख्यापनार्थम् - १] ५३. चकारो विभाषाख्यापनार्थ : (दु० टी० ३ । ३ । ३७) । [विशेषणार्थम् २] - ५४. चकारः “सिचि परस्मै स्वरान्तानाम् " ( ३ | ६ | ६ ) इति विशेषणार्थः (दु० टी० ३।२।२४) ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy