SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १४४ कातन्त्रव्याकरणम् 'चिकीर्ष' की "ते धातवः” (३।२।१६) से धातुसंज्ञा, “पूर्ववत् सनन्तात्" (३।२।४६) से ति प्रत्यय, "अन् विकरणः' (३।२।३२) से अन् विकरण, "असन्ध्यक्षरयो०" (३।६।४०) से चिकीर्ष-गत अकार को अकार तथा निमित्तभूत अन् के अकार का लोप । २. बुभुक्षते। भोक्तुमिच्छति । भुज् + सन् +ते । ‘भुज् पालनाभ्यवहारयोः' (६।१४) धातु से इच्छार्थ में प्रकृत सूत्र से सन् प्रत्यय, न् अनुबन्ध का प्रयोगाभाव, "यजिरुजि०" (३।७।२०) इत्यादि से अनिट, "सनि चानिटि"(३।५।९) से अगुण, द्विर्वचन, अभ्याससंज्ञा, आदि व्यञ्जन का शेष, “द्वितीयचतुर्थयोः' (३।३।११) से भ को ब, "चवर्गस्य किरसवर्णे (३।६।५५) से ज् को क्, स् को ए, 'बुभुक्ष' की "ते धातवः” (३।२।१६) से धातुसंज्ञा, ते-प्रत्यय तथा अन् विकरण ।। ४५४ | ४५५. नाम्न आत्मेच्छायां यिन् [३।२।५] [सूत्रार्थ] आत्म – इच्छा अर्थ में नाम पद से यिन् प्रत्यय होता है || ४५५ । [दु० वृ०] नाम्न आत्मेच्छायामर्थे यिन् परो भवति । पुत्रमिच्छति पुत्रीयति । एवं घटीयति । आत्मशब्दोऽत्राध्यात्मवचन एव मन्दधियां सुखार्थः । भ्रातुः पुत्रमिच्छति, आत्मनः पुत्रमिच्छति, महान्तं पुत्रमिच्छतीति 'सापेक्षत्वात् । भ्रातृपुत्रीयतीति युक्तार्थत्वात् । इच्छया नाम्नः सम्बन्धाद् दात्रेणेच्छतीत्यकर्मणो न स्यात् सापेक्षत्वाद् वा । व्यवस्थितवास्मरणान्मान्ताव्ययाभ्यां न स्यात् किमिच्छति, स्वरिच्छति ।। ४५५। [दु० टी०] नाम्नः । आत्मन इच्छा आत्मेच्छा। अथात्मग्रहणं किमर्थम्, यदन्तापारपुरुषवचनोऽयं स्यात् तदेच्छाया आत्मसमवायाद् विशेषणवैयर्थ्यम्, परात्मनश्चानिवृत्तिः । अथ परनिवृत्तिवचनो वा आत्मेच्छायां यथा स्यात्, परेच्छायां मा भूदिति । तदापि भ्रातुः पुत्रमिच्छतीत्यत्र यिन्प्रसङ्गः । कश्चित् सिद्धान्तयति । एषणम् इच्छा, आत्मन १. ननु चैत्रस्य गुरुकुलमित्यादाविव भ्रातुःपुत्रीयति, आत्मनः पुत्रीयति । आत्मनः पुत्रीयतीत्यादौ पुत्रादावात्मप्रभृते: प्रतियोगिविधयाऽन्वयस्य शिष्टतया कुतो न यिन् ? सत्यम् । यिनः प्रकृतिभूतस्य नाप्नो यत् प्रवृत्तिनिमित्तं तेन रूपेण प्रकृत्यर्थस्येच्छाविषयत्वं यिन्प्रत्ययेनाभिधीयते । तेन आत्मपत्रत्वस्य प्रकत्यर्थप्रवत्तिनिमित्तत्वाभावेन तदरूपेण पत्रस्येच्छाविषयतायां यिन प्रत्ययो न भवितुमर्हति । एवं दुःखत्वेन दुःखस्य इच्छाविषयत्वाभावाद् दुखमिच्छतीत्यादावपि न यिन् प्रयुज्यते इति न्यायालङ्काराः [सं०-टि०] ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy