SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये प्रथमः परस्मैपादः तच्चाध्यापनमेव नाध्ययनमिति । यदि सत्कारपूर्वको व्यापार एवाध्येषणं तदा शिष्यस्य व्यापार एवाध्येषणं स्यान्न गुरोरिति । तस्यान्यव्यापारासंभवादित्याहुः । तदज्ञानविजृम्भितमेव । माणवकमध्यापयेदिति वृत्तिविरोधात् । तस्मात् पूजापूर्वककर्तव्यताज्ञापनस्यैवात्राध्येषणत्वम् । अत एव टीकायाम् अस्यापि विधिभेदाद् विधिसम्प्रश्नप्रार्थनानां त्रयाणामेव विधित्वम् । अतो नाध्ययनस्य नाप्यध्यापनाया अध्येषणत्वम् इति ब्रूमः । एतेन हेमकरमतमपि निरस्तम् । निरूपणेति, परामर्श इत्यर्थः । संशयितस्यैकतरनिष्ठत्वेन निर्णेतुमिच्छा निरूपणा । किं किं नु भो व्याकरणमधीयते, ततश्छन्दोऽधीय । अध्ययनस्य निरूपणमित्यर्थः । याञा प्रार्थनेति आत्मलाभनिमित्तं प्रेषणं मह्यं देहीति रूपं यात्रा प्रार्थनेत्यर्थः । लभेय भिक्षामिति । आत्मलाभार्थं भिक्षां देहीति प्रेरयतीत्यर्थः । प्रेष्येत्यादि । परोऽत्र "प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च" (अ० ३।३।१६३) इति चकारेण पञ्चमीमात्रमनुवर्तयति । तदनन्तरं "सप्तमी चोर्ध्वमौहूर्तिके' (द्र०, अ० ३।३।१६४) इति व्याचष्टे । प्रेष्याधुपपदेष्विति । यथा प्रेषितोऽतिसृष्टो वा प्राप्तकालो वा भवान् ग्रामं गच्छतु । तथा प्रेषितो भवान् मुहूतोदूर्ध्वं ग्रामं गच्छेत्, गच्छतु च इत्याचष्टे । तदनुसाराद् वृत्तावपिशब्देनातिसर्गोऽपि गृह्यते । सप्तमी चेत्यत्र पञ्चम्या व्यस्तेनान्वयः, तत्र भिन्नविभक्तिनिर्देशाद् ऊर्ध्वमौहूर्तिक इत्युपस्कृत्य सप्तम्यपीति योज्यम् । अपिशब्दात् पञ्चम्या अपि समुच्चयः । तेन प्रैष्यातिसर्गप्राप्तकालेषु पञ्चमी । प्रेष्यादिविशिष्टे ऊर्ध्वमौहूर्तिके सप्तमी पञ्चमी च स्यादित्यर्थः पर्यवस्यति । प्रेषितस्त्वं ग्रामं गच्छेति पञ्चम्या एवात्रोदाहरणम् । एवमतिसृष्टस्त्वं ग्रामं गच्छ, प्राप्तकालस्त्वं ग्रामं गच्छ । अत्र सप्तम्या उदाहरणं नास्ति । प्राप्तकालस्ते कटकरण इति । अत्रोर्ध्वमुहूर्तादपि . योज्यम् । ऊर्ध्वमौहूर्तिके प्रेष्यातिसृष्टयोरुदाहरणं बोध्यमिति कुलचन्द्रः। तन्नेति महान्तः। अतिसर्गो हि कामाचरणानुज्ञेति भाषावृत्तिः। सा चानुमतिस्वरूपा, तत्र च पञ्चमी विहितैवास्ति । तस्मात्- किं पुनर्विहितातिसर्गस्य समुच्चयेनेति ऊर्ध्वमौहूर्त्तिक इत्यध्याहृत्य व्यस्तेन ग्रन्थयोजनमपि चाभिप्रायापरिज्ञानादेव । प्रेष्यप्राप्तकालयोरपि विधिसामान्यविवक्षया पदसंस्कारेण श्वो गमिष्यतीतिवत् सप्तमी पञ्चम्यपि स्यादेव | पाणिनेरपि मतमेतत्, बाधकाभावात् । तथा च किन्तत्र पञ्चमीविधानेन विधिसामान्यवाचकप्रत्ययस्यैव साधुत्वादिति प्रोक्तं तैरिति । एवम् ऊर्ध्वमुहूर्तस्यापि विधिसामान्यत्वं स्वीकृतम् । एतन्मतेनैव 'प्रेषितस्त्वं ग्रामं गच्छेः' इति सप्तम्युदाहरणमपि क्वचित् पुस्तके यत् पठितं तत् संगच्छते एवेति । 'प्राप्तस्ते काल:' इत्यत्रापि ऊर्ध्वमुहूर्तादिति नाध्याहर्तव्यमिति उक्तरीत्यैव यतः संगच्छते वृत्तिरिति ।। ४३६।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy