SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये प्रथमः परस्मैपादः ७७ इत्यत्रानद्यतनपरोक्षेऽपि अद्यतनत्वविवक्षयाऽद्यतनीति । अनागतस्येष्टार्थस्य लाभेनेत्यादिवृत्तिः । अयमर्थः- अनागतस्य भविष्यत इष्टार्थस्य लाभनिमित्तं यप्रयोक्तुराविष्करणं तदाशीरिति । लाभेनेति हेतौ तृतीया, तेन 'देवदत्तस्य पुत्रलाभो भविष्यति' इत्यत्र नातिप्रसक्तिरिति । अर्थाद् भविष्यविषयैवेति वृत्तिः । ननु कथमिदमुच्यते यावता पुत्रस्ते भूयाद् इत्यादिरूपस्य आशंसनस्य क्रियास्वरूपस्य वर्तमानत्वमेव, ततश्च वर्तमानकालबाधनार्थमेव भविष्यद्विधानं भवत् कथं सुखार्थं स्यादिति ? सत्यम्, आशस्यमानस्य पुत्रभवनस्य भविष्यत्त्वात् तदाविष्करणस्याप्याशंसनस्य भविष्यत्त्वं तेनार्थादित्यस्याशस्यमानस्य भविष्यत्त्वेन भविष्यत्त्वोपचारादित्यर्थः । एतेनोपचरितया आशंसया कालस्य विशेषणमित्युक्तं भवति । ननु भविष्यद्विधानमन्तरेणेत्यादि । ननु यदि आशीर्ग्रहणं भविष्यति भविष्यन्त्याशीरित्यत्र न क्रियते, तदा किमपेक्ष्य ह्यस्तन्याः परत्वं येनाशीर्युक्ते भविष्यति श्वस्तने परत्वात् श्वस्तन्येव यथा स्याद् इत्युच्यते? सत्यम्, आशीर्ग्रहणं (सर्वथा न खण्ड्यते, किन्तु काल इत्यस्यानन्तरम् आशीरिति क्रियतां तत्र) भविष्यतीत्यादि सूत्रे न क्रियताम्, तदाशिषः परेणैव पाठं कुर्यादिति सिद्धान्तपङ्क्तेः काल इत्यस्यासन्निहितं भविष्यति भविष्यन्ती - श्वस्तन्याविति कृत्वा तदनन्तरमाशीरिति क्रियतामित्याचष्टे कश्चित् । सर्वमेतदनुचितम् । 'वरमक्षराधिक्यं न तु गिन्नयोगः' इति न्यायात् । __ अपरस्तु आशीर्ग्रहणाभावेऽपि भविष्यन्त्यपेक्षया सूत्रे श्वस्तन्याः परनिर्देशाद् आशीरपेक्षयापि श्वस्तन्याः सुतरां परत्वं सम्भवति, यतः संज्ञाविधाने श्वस्तनी परभूता भविष्यन्ती तस्या अपि विधिसूत्रे परभूता श्वस्तनीति आशिषः परभूता सुतरामेव श्वस्तनी भवतीति परत्वं घटत एवेति । अस्मिन् पक्षे आशिषः परेण पाठं कुर्यादिति । अस्य संज्ञाविधौ क्रियातिपत्तेः परेणाशिषः पाठं कुर्यादित्येवार्थ इत्याचष्टे। इदमपि नातिपेशलम् । अन्ये तु आशीर्ग्रहणं न खण्ड्यते किन्तु भविष्यतिपदेन यद् विधानं भविष्यदग्रहणमदत्त्वा भविष्यन्त्याशीःश्वस्तन्यः इति क्रियतामित्यर्थः। ननु भविष्यविधानं विना पूर्वसूत्रादतीतानुवृत्तिः स्यादिति चेत्, न | "भूतकरणवत्यश्च" (३।१।१४) इत्यनेन सह "भविष्यन्त्याशीःश्वस्तन्यः" (३।१।१५) इत्येकयोगाकरणात् । तस्मात् स्वसंज्ञाविशेषणाद् भविष्यत्येव विधानं गम्यते किं भविष्यतिपदेन । अथ भविष्यद्ग्रहणं बाधकबाधनार्थमवश्यमङ्गीकर्तव्यम्, तत्र यदि भविष्यन्ती सर्वबाधिकेत्युच्यते तदा श्वस्तन्याशिषौ निर्विषये स्याताम्, श्वस्तन्यास्तु सर्वपरत्वेन सर्वबाधकत्वं सिद्धमेवेति न तदर्थं भविष्यद्ग्रहणम् । अतः पारिशेष्यात् सूत्रे
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy