________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
दग्धा च दहनीया च दह्यमाना च दृश्यते । वर्तिकाग्निसंयोगाद् वर्तमानो न तेऽस्ति किम् ॥
J
अतो व्यवहारनिबन्धनाश्च शब्दा इति न दोषः । ' मांसं न खादति' इत्यादि वर्तमाने पदं निष्पाद्य पश्चान्नञा सम्बन्धनीयमिति दर्शयति । प्रतिवचनेऽपि नञो विवक्षया अतीतेनात्र वचनं वचनं प्रतीत्यव्ययीभावो न च प्रत्युक्तं परिहृतमित्यर्थे पृष्टे सति वचनमिह प्रतिवचनम् । मांसं मा खादत् मांसं न खादतीत्याह । एवं घटं मा कार्षीस्त्वं न करोमि भोः, कर्तुः क्रियया कालस्यानुवृत्तेर्वर्तमानतैव विवक्षितायां समाप्तम् । तदपेक्षया भूतविवक्षापि नाकार्षीत्, नाकार्षम् । तथा नुनापि प्रतिवचने नु करोषि न्वकार्षम् । ननुना प्रतिवचने तु नित्यं वर्तमानविवक्षा नन्वपाक्षीस्त्वम्, ननु पचामि भोः । इह 'कुमाराः क्रीडन्ति' इति बुभुक्षया निद्रया वा कुमाराणां क्रीडा वृत्ता बुद्ध्या श्वःप्रभृतिर्वर्तत एव । ' तिष्ठन्ति पर्वता:' इति, तथा नित्यप्रवृत्तावपीत्यर्थः । कदेत्यादि सामीप्योऽपि वर्तमानः स च भूतस्य भविष्यतश्च समीपे भवः इति सामीप्य उच्यते, तथा अध्वखेदादिगमनसन्निधानं च वर्तते इति भावः । यदा तु भूतभविष्यद्विवक्षा तदा यथोक्तं प्रत्यया भवन्त्येव - ' एषोऽहमागच्छम्, एषोऽहमागमम् एषोऽहमागतः' इति । एषोऽहमागमिष्यामि, एषोऽहं गन्ताऽस्मि गमिष्यन्तमेव मां विद्धीति । तदुक्तं च
६७
प्रवृत्तोपरतश्चैव वृत्ताविरत एव च । नित्यप्रवृत्तः सामीप्यो वर्तमानश्चतुर्विधः ॥ इति ।
तथा 'वसन्तीह पुरा छात्रास्तेन स्म पुराधीयत' इति पुराशब्दः स्वभावादतीतकालस्य द्योतकस्तेन ज्ञापितेऽतीते काले तदा वासाध्ययनयोर्वर्तमानत्वम् । यथा भाषते राघवस्तदेति । “स्मेनातीते" (३।१।१२) इति विधेयमेव तत्र शब्दान्तरसन्निधानाद् अवधारितभूतविशेषस्य वर्तमानत्वं युज्यते । 'करोति स्म' इति भूतमात्रे क्रियाया वर्तमानत्वं नोपपद्यते । अथातिक्रान्तवस्तुनि करोतीति यदा करोति तदा तस्याः क्रियाया वर्तमानत्वम् | नैवं स्मशब्देन सामर्थ्याद् भूतविशेषः प्रतिपत्तव्यो न युक्तरूप एवेति । 'ऊषुरिह पुरा छात्रा:' इति परोक्षा सिद्धैव । परोक्षत्वस्याविवक्षायामेवासन्निह पुरा छात्रा इति ह्यस्तनी । अद्यतनस्यापि विवक्षायाम् अवात्सुरिह पुरा छात्रा इति अद्यतनी परोक्षेऽतीत इत्यादि । ननु च क्रिया साध्या यच्च साध्यमानं तदसद्