SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् ५८ वर्तमानत्वेन वर्तमाना विभक्तिः सिद्धैव, न तदर्थं सम्प्रतिग्रहणम्, किन्तु 'तस्थुः स्थास्यन्ति गिरयः' इत्यादौ विभक्त्यन्तरप्रवृत्तिरेव तत्फलमिति वाच्यम्, यावता गिरीणामनतीतत्वेऽपि गिरिसम्बन्धिनां राज्ञां वर्तमानक्रियायां वर्तमानत्वं गिरेश्च स्थितिकियायां वर्तमानत्वमध्यारोप्य वर्तमानाविधानेनैव सम्प्रतिग्रहणस्य सार्थकत्वम् । सत्यम्, अत्रारोप्ये वर्तमाने साहजिके वर्तमानेऽपि वर्तमानाविधानादुत्तरत्रापि दृष्टपरिकल्पनावशात् साक्षात् परम्परया वा साधारणयोर्भूतभविष्यतोहणं भविष्यति । एवं च सति 'सम्प्रति' इत्यस्य व्यावृत्तिबलादित्यस्याः पङ्क्तेरयमाशयःसम्प्रतिग्रहणस्य वैयर्थ्यभयादारोपेण 'तिष्ठन्ति गिरयः' इति यत् साधितं तद् दृष्टपरिकल्पनावशादिति साध्याहारयोजना । ___ यद् वा विनापि सम्प्रतिग्रहणं वर्तमानेति पृथग्वचनादेव परम्परया वर्तमाना वर्तमानत्वाध्यारोपेऽपि सिद्धैव, अन्यथा "स्मेनातीते वर्तमाना" इत्येकमेव सूत्रं कृतं स्यात्, किं सम्प्रतिग्रहणेन । न च पृथग्वचनाभावे स्मनातीते वर्तमानेति सूत्रेण यत्रैव स्मशब्दयोगस्तत्रैव वर्तमाना स्यान्नान्यत्रेति वाच्यम् । वर्तमानेति अन्वर्थबलेन "शेषात् कतरि" (३।२।४७) इत्यादिविधिवाक्यैरेवान्यत्र सम्भवात्, तस्मात् सम्प्रतिग्रहणमस्मिन् प्रकरणे साक्षात् परम्परया वा साधारणकालस्य ग्रहणं ज्ञापयतीति । वस्तुतस्तु सम्प्रतिग्रहणं वर्तमानाया एककालनियमार्थं वर्तमानकाल एव वर्तमानेति, तेनान्यासां स्वसंज्ञाविशेषणव्यभिचारात् कालान्तरेऽपि प्राप्तिरिति सूचयति । तेन ह्यस्तन्यद्यतन्योभूतसामान्येऽपि प्राप्तिरिति ।। ४२७। [समीक्षा] पाणिनि ने वर्तमान अर्थ में लट् लकार का विधान किया है - "वर्तमाने लट्" (अ० ३।२।१२३), लट् आदि १० लकारें सांकेतिक हैं, अत: उनका निर्देश अत्यन्त कृत्रिम है, स्वाभाविक या अन्वर्थ नहीं । अर्थदृष्ट्या पाणिनि तथा कातन्त्रकार दोनों के समान निर्देश हैं, किन्तु लट् का विधान विशुद्ध कृत्रिम (यादृच्छिक) है, जबकि वर्तमाना का प्रयोग अन्वर्थ रूप में किया गया है | [विशेष वचन] १. परैस्तु सम्प्रति द्रव्यसमवेतास्वपि क्रियासु अतीतानागतविवक्षा लौकिकीति मन्यते (दु० टी०)। २. हैहयादिवंशे ये राजानो बभूवुस्तेषां याः क्रिया भूतवत्यस्तासामतीतत्वापेक्षया तस्थुरित्युच्यते, तथा वर्तमानराजादुत्तरे ये भविष्यन्ति राजानस्तेषां याः क्रिया भाविन्यस्तासां भविष्यत्त्वापेक्षया स्थास्यन्तीति (वि० प०)।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy