SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये चतुर्थः कारकपादः ३१ उपाध्यायसकाशादध्ययनं गृह्णातीत्यर्थः । तेन “आख्यातोपयोगे" (अ० १।४।२९) इति न वक्तव्यम् । अथ उपयोगो हि नियमपूर्वकम् आयूर्वश्च दाञ् ग्रहणमात्रे वर्तते | ततश्च 'नटस्य गीतं शृणोति' इत्यत्राप्यपादानसंज्ञा स्यादिति चेत्, नैवम् । आख्यातस्य क्रियाप्रधानत्वाद् ग्रहणं चेत् साध्यतया विवक्ष्यते, तदा भवति। अत्र तु सम्बन्धविवक्षैव दोषः । यत इत्यादि । अवधिमात्रम् अर्थो यस्येति विग्रहः । "जुगुप्साविरामप्रमादार्थानाम् उपसंख्यानम्" (अ० २।३।२८ - वा०) इति केनचिद् उक्तम्, तदिह न वक्तव्यम् । अवधेरिहापि विद्यमानत्वाद् इत्याह - तथेति । न हि कायप्राप्तावेवापायो भवति, किं तर्हि चित्तप्राप्तावपीति । तथाहि 'अधर्माज्जुगुप्सते, अधर्माद् विरमति' इति । य एव प्रेक्षापूर्वकारी दुःखहेतुरयमधर्मः, ततो नैनं सन्तः कर्तुमर्हन्तीति विचारयन्नधर्मं बुद्ध्या प्राप्नोति । प्राप्य च ततो निवर्तमानस्य पुरुषस्य धर्मोऽवधिरेवेति । धर्मात्प्रमाधति' इत्यत्रापि नास्तिको वदति न खलु धर्मात् किञ्चिदिष्टं फलं समासाद्यते केवलं दुःखमेव तदनुष्ठानेन भवतीति विचारयंस्तं बुद्ध्या प्राप्नोति, प्राप्य च ततो निवर्तते तत्राप्यवधिरस्त्येवेति अपादानसंज्ञा न्यायात् सिद्धैव । 'अधर्मात् प्रमाद्यति' इति नपाठोऽपौराणिक एव, प्रमादस्य विहितानुष्ठानरूपत्वान्न चाधर्मो विहित इति । 'अध्ययनात् पराजयते' इति अध्ययनसकाशाद् देवदत्तो यज्ञदत्तं सोढुं न शक्नोति, अभिभवितुं न पारयतीति यावत् । अत्राप्यवधिरस्त्येवेति । अथ अध्ययनमेवासोढत्वेन विवक्षितम् । यदाह जिनेन्द्रबुद्धिः- अध्ययनं सोढुं न शक्नोति, अध्ययनम् अभिभवितुं न पारयतीति यावत् । ततश्चाध्ययनस्य कर्मसंज्ञा प्राप्नोति, तन्निरासार्थं "पराजेरसोढः" (अ० १।४।२६) इति वक्तव्यम् इत्ययुक्तम्, इहापि बुद्धिकृतापायस्य सम्भवात् । तथाहि यदालसो मन्यते -दुःखहेतुरेतदध्ययनम्। को ह्येतदध्येतुं शक्तः इति, तदाध्ययनं बुद्ध्या प्राप्नोति, प्राप्य च ततो निवर्तते इति सिद्धाऽपादानसंज्ञेति। एतदेव जिनेन्द्रबुद्धिना-प्युक्तम् – “अस्ति हि अध्ययनाद् बुद्धिसंसर्गपूर्वकोऽपायः" (न्यास० १।४।२४) इति । यस्तु सोढस्तस्य व्याप्यत्वात् कर्मसंज्ञैव स्यात् । यथा 'शत्रून् पराजयते'। अभिभवती-त्यर्थः । विपराभ्यां जिरिति रुचादित्वादात्मनेपदम् । 'उपाध्यायादन्तर्धत्ते' इति ।उपाध्यायसकाशादन्तर्धत्ते प्रेषणाध्येषणभयाव्यवहितो भवतीत्यर्थः । अत्राप्यवधिरस्त्येवेति । किम् “अन्तौ येनादर्शनमिछति" (अ० १।४।२८) इति वचनेन । यदप्युक्तम् अन्तर्द्धाविति किम् ? चौरान्न दिदृक्षते । एतत् किलादर्शनम्
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy