SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ ६५६ कातन्त्रव्याकरणम् ६२. स्वतिभ्यां पूजायां प्राग् बहुव्रीहेः [२० च० टी०] आभ्यां राजादिशब्दादत्प्रत्ययो न भवति पूजायां बहुव्रीहिभिन्नसमासे । शोभनो राजा सुराजा । अतिशयो राजा अतिराजा । सुगौः, अतिगौः । स्वतिभ्यामिति किम् ? परमराजः। पूजायामिति किम् ? अतिक्रान्तो राजानम् अतिराजः । बहुव्रीहेः प्रागिति किम् ? शोभनं सक्थ्यस्य सुसक्थः ।। ६२ । ६३. नञस्तत्पुरुषे [२० च० टी०] नञस्तत्पुरुषे राजादिशब्दादप्रत्ययो न भवति । न राजा अराजा । एवम् असखा । तत्पुरुष इति किम् ? अनृचो माणवकः । न विद्यते धूर्यस्य अधुरं शकटम् || ६३ ६४. पथो वा [२० च० टी०] नञस्तत्पुरुषे पन्थिशब्दादद् भवति वा । नायं पन्थाः अपथम्, अपन्थाः । तत्पुरुष इति किम् ? न विद्यते पन्था यस्य अपथोऽयं देश ः || ६४ | ६५. धेन्वनडुहादयश्च : [२० च० टी०] धेन्वनडुहांदयो निपात्यन्ते । धेनुश्च अनड्वांश्च धेन्वनडुहौ । ऋक् च यजुश्च ऋग्यजुषम् | अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् इत्यादि ।। ६५ । || इत्याचार्यदुर्गसिंहप्रणीतानां राजादिगणसूत्राणामाचार्यरलेश्वरचक्रवर्तिविरचिता वृत्तिः समाप्ता ॥
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy