SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ ६५२ कातन्त्रव्याकरणम् ३९. हिमवन्त द्विधा [र० च० टी०] हिमवन्त - द्विधाशब्दाभ्याम् अव्ययीभावसमासेऽद् भवति । हिमवतः समीपम् उपहिमवतम्, उपद्विधम् ।।३९। ४०. अनड्वाह-विश्-चत्वार-यद्-तद् [२० च० टी०] एभ्योऽव्ययीभावसमासेऽद् भवति ।उपानडुहम्, उपविशम्, उपचतुरम्, उपयदम्, उपतदम् ।।४०। ४१. जरा जरस् [२० च० टी०] जराशब्दादव्ययीभावसमासेऽद् भवति जराया जरसादेशश्च । उपजरम् ।।४१ । ४२. प्रतिसमनुभ्योऽक्षि [२० च० टी०] एभ्योऽक्षिशब्दादद् भवति अव्ययीभावसमासे | अक्ष्णोराभिमुख्यम् प्रत्यक्षम् । अक्ष्णोः समीपं समक्षम् । एवम् अन्वक्षम् ।।४२ । ४३. उप श्वन् [र० च० टी०] अनन्तेति वक्ष्यमाणेन सिद्धे नियमार्थः पाठः । अव्ययीभावसमासे उपादेव श्वन्शब्दादद् भवति, नान्यस्मादिति । शुनः समीपम् उपशुनम् । नियमः किम् ? अधिश्व ।। ४३। ४४. सह रजस् [२० च० टी०] अव्ययीभावसमासे सहपूर्वाद् रजस्शब्दादद् भवति ।सह रजसा वर्तते सहरजसम्, सरजसमभ्यवहरति । साकल्येऽव्ययीभावः ।।४४ ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy