SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ६५० कातन्त्रव्याकरणम् २६. अन्धसमवेभ्यस्तमस् [२० च० टी०] एभ्यः परात् तमस्शब्दादद् भवति । अन्धं च तत् तमश्चेति अन्धतमसम्, एवं सन्तमसम्, अवतमसम् ||२६| २७. श्वसोऽवसीयस् [२० च० टी०] श्वस्पूर्वादवसीयस्शब्दादद् भवति । श्वोऽवसीयम् । कल्याणमित्यर्थः ।। २७ । २८. निसश्च श्रेयस् [२० च० टी०] चकारः शसोऽनुकर्षणार्थः । आभ्यां परात् श्रेयस् शब्दादद् भवति । निश्चितं श्रेयः निःश्रेयसं निर्वाणम् | शोभनं श्रेयः निःश्रेयसं कल्याणमित्यर्थः ||२८| २९. अन्ववतप्तेभ्यो रहस् [२० च० टी०] एभ्यः पराद् रहस्शब्दादद् भवति । अनुरहसम् अवरहसम् | तप्तमिव तप्तम्, तप्तं च तद् रहश्चेति तप्तरहसम् । यदत्यन्तं रहः केनचिन्नावगम्यते तदेवमुच्यते ||२९| ३०. प्रतेरुरस् आधारश्चेत् [१० च० टी०] प्रतिपूर्वाद् उरस्शब्दादद् भवति । उरसि प्रवर्तते प्रत्युरसं लोम । कारकार्थेऽव्ययीभावः । आधार इति किम् ? प्रतिगतमुरः प्रत्युरः || ३० | ३१. अनुगवमायामवति [१० च० टी०] आयामो दैर्घ्यं तद्वति अनुगवमिति निपात्यते । गवाम् अन्वायातं शकटम् अनुगवम्, यद् गोभिरुह्यते । आयामवतीति किम् ? गवामनु पश्चात् - अनुगु । पश्चादर्थेऽव्ययीभावः ।। ३१ । ३२. उपसर्गादध्वन् [२० च० टी०] उपसर्गपूर्वादध्वन्शब्दादद् भवति । प्रगतोऽध्वानं प्राध्वो रथः । प्रत्यध्वं शकटम् || ३२ ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy