SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ ॥श्रीः॥ परिशिष्टम् -२ श्रीदुर्गसिंहप्रणीतानि राजादिगणसूत्राणि [समासान्तगतानां वा राजादीनामदन्तता] [दु० वृ०] समासान्तगतानां राजादीनामदन्तता निपात्यते अप्रत्ययो वा अदन्तो वा येषामिति विग्रहः । अवयवावयवोऽपि समासस्यावयवः, तेन उपराजम्, अध्यात्मम् । अव्ययीभावाद् विभक्तीनाम् अम् । द्विपुरी, त्रिपुरी । द्विगोर्नदादित्वादी । सक्त्वचिनी । द्वन्द्वनिन्दितरोगेभ्यः इतीन् । एवमन्येऽपि । १. राजन्नहन्सखि [र० च० टी०] प्रणम्य रुद्रस्य हरेभवान्या वाण्या गणेशस्य च पादपद्मम् । तनोति रत्नेश्वरचक्रवर्ती राजादिवृत्तिं पठतां हिताय ॥ 'राजन्नहन्सखि' एभ्यस्तत्पुरुष समासे अत् प्रत्ययो भवति । महांश्चासौ राजा चेति महाराजः । परमं च तदहश्चेति परमाहः । देवानां राजा देवराजः । राज्ञः सखा राजसखः । एवमन्येऽपि ।।१। २. गौरतद्धिताभिधेये [र० च० टी०] अतद्धिताभिधेये गोशब्दादद् भवति । राज्ञो गौः राजगवः, परमगवः ।अतद्धिताभिधेय इति किम् ? पञ्चभिर्गोभिः क्रीतः पञ्चगुः । गोरप्रधानेत्यादिना ह्रस्वः ।।२। ३. उरःप्रधानार्थम् [२० च० टी०] प्रधानाद् उरःशब्दाद् अत् प्रत्ययो भवति । अश्वानामुरः अश्वोरसम्, हस्त्युरसम् । अश्वादीनां प्रधानमित्यर्थः । प्रधानार्थमिति किम् ? अश्वोरः, अश्वानां वक्ष इत्यर्थः।।३।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy