SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - २ १६६ . चरणानामनुवादे स्थेणोरद्यतन्याम् अद्यतन्यां स्थेणोः प्रयोगेऽनुवादविषये चरणानां द्वन्द्व : समाहारे भवति । प्रत्यष्ठात् कठकालापम्, उदगात् कठकौथुमम् | अन्यत्र कठकालापाः । चरणानामिति बहुवचनं नातन्त्रम् इति मन्यते । वृद्वैश्च बहुत्वे एवोदाहरणानि दर्शितानि || १६६ | १६७. तौर्य्यिकस्य ६४१ तूर्यं शिल्पं यस्य तस्य द्वन्द्वः समाहारे भवति । मार्दङ्गिकपाणविकम्, झार्झरिकमौरजिकम्, वैणविकशाङ्खिकम् || १६७ । १६८. तक्षादेश्च तक्षप्रभृतेर्द्वन्द्वः समाहारे भवति । तक्षकुलालम्, रजकतन्तुवायम्, तक्षायस्कारम्, नापितसौचिकम्, यस्य भोजनादपूतं कांस्यादिपात्रमग्निविशिष्टेनैव संस्कारेण शुध्यति स इह शूद्रस्तक्षादिः ।। १६८। १६९. द्रव्यजातावजन्तोः जातिरिह जातिमन्मात्रम् अनियतव्यक्तिकं वस्तूच्यते । द्रव्यजातौ वर्तमानस्याजन्तोर्द्वन्द्वः समाहारे भवति । काचदृशदम्, हीरकमौक्तिकम्, स्थालीकुम्भम्, घटपिठरम्, पीठच्छत्रोपानहम् । द्रव्येति किम् ? रूपरसगन्धाः, चलनाकुञ्चनप्रसारणानि । जाताविति किम् ? मलयकेकयौ कौस्तुभगाण्डीवौ, अजन्तोरिति किम् ? ब्राह्मणक्षत्रियविशः, जातिशब्दानामपि जातिपरत्वे विधिरयम् । इह न स्यात् - इमाः पीठच्छत्रोपानहः । तन्त्रान्तरे त्वप्राणिनामिति बहुत्वनिर्देशाद् बहुत्व एव विधिरयमिति केनचित् समर्थितम्, तदपरे न मन्यन्ते । अजातित्वान्नन्दकपाञ्चजन्याविति वृद्धैः प्रत्युदाहृतत्वात् ।। १६९ । १७०. फलस्य तु वा जातौ वर्तमानस्य फलस्य द्वन्द्वो वा समाहारे भवति । बदरामलकम्, बदरामलके । द्राक्षाखर्जूर, द्राक्षाखर्जूरम् । जातावित्येव - इमानि बदरामलकानि । इह जातिपरत्वे बहुवचनं नास्तीति एकवचनस्यैव द्वन्द्वः । येषान्तु जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यामिति मतम्, तेषामपि बहुवचनान्तत्वे फलजातेर्विधिरन्यत्र निवृत्तिरेकत्वे एव विभाषा सिध्यति । शाक्यानान्तु जातौ बहुवचनं नास्ति, बहुत्वे 1
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy