SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः ॥ परिशिष्टम् - २ श्रीश्रीपतिदत्तप्रणीतम् कातन्त्रपरिशिष्टम् समासप्रकरणम् १. नाम्नाम् स्यायन्तमिह नामेष्टं लिङ्गसंज्ञाऽन्यथा वृथा । तत्तेन सह युक्तार्थं यत् पदं यदपेक्षते ॥ १॥ क्वचित् संसृज्यमानस्य धवादेरेकवस्तुनि । । परस्परव्यपेक्षायामेवं द्वन्द्वोऽपि वक्ष्यते ॥ २ ॥ अनेकस्यैकयोगं च योगमिच्छन्ति वृत्तये । द्वन्द्वेनावश्यमिष्यते ।। ३ । तदा षष्ठ्या अतो परस्परापेक्षा समूहसम्बन्धे । समूहस्तूपनीयते । नामसमूहस्य युक्तार्थस्य समासता ॥ ४ ॥ प्रतियोगिपदादन्यद् यदन्यत् कारकादपि । वृत्तिशब्देकदेशस्य सम्बन्धस्तेन नेष्यते ॥ ५॥ कारकप्रतियोगिभ्यां यद् यदन्यदपेक्षते । अपेर्बहुलवाचित्वाद् वृत्तिस्तत्र तु नेष्यते ॥ ६ ॥ तरुण्यो वृषली भार्यः प्रवीरं पुत्रकाम्यति । ऋद्धस्य राजमातङ्गा इति न स्युः प्रयुक्तयः ॥ ७॥ चैत्रस्य दासभार्येयं लूनचक्रो रथो मया । शरैः शातितपत्रोऽयं वृक्षादिति सतां मतम् ॥ ८ ॥ या वृत्तिरजहत्स्वार्था सेयमत्रोपपादिता । पदानां प्रत्ययैर्योगाः समासश्चेह वृत्तयः ॥ ९ ॥
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy