SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ ५३. पक्षाच्चोपमानादेः उपमानपूर्वात् पक्षात् पुच्छाच्च ईर्भवति । श्वपुच्छी, सिंहपुच्छी, शुकपक्षी, काकपक्षी । उपमानादेरिति किम् ? सितपक्षा हंसी । इह स्वाङ्गादिति न स्मरन्ति, तेन गिरिपक्षा शाला || ५३। ५९३ ५४. न क्रोडादेः क्रोडादेः स्वाङ्गादीर्न भवति । सुक्रोडा, सुखुरा । क्रोड-खुर-शफ-बाल-भग-गुदगल-प्रोथ-ग्रीवा । एवमन्येऽपि || ५४ | ५५. सह - विद्यमान - नञश्च सह-विद्यमान-नञ्पूर्वात् स्वाङ्गादीर्न भवति । सहकेशा, सकेशा, विद्यमानकेशा, अशा || ५५ | ५६. नखमुखान्नाम्नि नखमुखात् संज्ञायामीर्न भवति । शूर्पणखा, कद्रुमुखा, कालमुखा, वक्रणखा, गौरमुखा । क्वचिन्नत्रा निर्दिष्टस्यानित्यत्वात् शूर्पणखीत्यपि स्यात् । अप्रधानादिति निवृत्तम् ||५६ | ५७. सूर्याद् दैवते सूर्याद् देवतायामर्थे ईर्न भवति । सूर्या देवी । पुंयोगात् प्राप्तः । दैवते इति किम् ? सूरी मानुषी || ५७ | ५८. यङश्च अणिणोरादेशाद् यङश्च ईर्न भवति । श्वफल्कस्यापत्यं स्त्री श्वाफल्क्या । वराहस्यापत्यं स्त्री वाराह्या । निवृत्तो निषेधः || ५८ा ५९. क्रीतात करणादेः करणपूर्वात् क्रीतादीर्भवति । धनकीती । धनेन क्रीतमिति समासे पश्चात् स्त्रीत्वविवक्षा | 'धनेन क्रीता' इत्यत्र धनक्रीतेति स्यादेव । करणादेरिति किम् ? राजक्रीता । कथं धनेन क्रीता ? पदसंस्कारकाले करणादित्वात् ।। ५९।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy