SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ५८९ परिशिष्टम् -१ २२. पुत्रमातामहपितामहेभ्यः एभ्य ईर्भवति । पुत्री, मा भैषीः पुत्रि ! सीते । 'सुतपुत्री । राजपुत्री, सुतदुहिता, राजदुहिता' इति च स्यादेव । अतो न सुतादिभ्यो दुहितुः पुत्रताऽतिदिश्यते । मातामही, पितामही, अपुंयोगार्थमनयोरारम्भः ।।२२ । २३. पूरणे डमथेभ्यः पूरणेऽर्थे डमथेभ्यः प्रधानेभ्य ईर्भवति । एकादशी, पञ्चमी, कतिथी ।।२३। २४. भाजात् पक्वे भाजात् पक्वेऽर्थे ईर्भवति । भाजी, शाकव्यञ्जनभेदः । अन्यत्र भाजा ||२४| २५. गोणादावपने गोणादावपनेऽर्थे ईर्भवति । गोणी, व्रीह्यादिवपनार्थपात्रान्तरम् आवपनम् । अन्यत्र गोणा ।।२५। २६. नागात् स्थूले नागात् स्थूलेऽर्थे ईर्भवति । नागी स्थूला | अन्या नागा । कथं नागी काद्रवेयी, नागी करेणुः ? जातित्वात् ।।२६।। २७. कुशादायसे कुशादयसो विकारेऽर्थे ईर्भवति ।कुशी फालाख्या ।अन्यत्र आयसी कुशेति ।।२७। २८. कामुकाद् रिरंसौ रिरंसौ मैथुनेच्छौ कामुकादीर्भवति । यूनां कामुकी । अन्यत्र धनस्य कामुका । कथं सुरतस्य कामुका ? इहापीच्छौ कामुकशब्दो वर्तते न तु सुरतेच्छाविति ।।२८। २९. नीलात् प्राण्योषध्योः नीलादनयोरीभवति । नीली गौः । नीली नामौषधिः । अनयोरिति किम् ? नीला माला (मणिः) । कथं नीला कगुः ? ओषधौ जात्यभिधाने हि विधिः ।।२९। ३०. वा संज्ञायाम् नीलात् संज्ञायाम् ईर्भवति वा । नीली, नीला ।।३०। ३१. चण्ड-कृपण-पुराणोदर-कल्याण-विशाल-विकटविशकटोपाध्याय-साधारण-सहायावाल-शोणेभ्यश्च
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy