SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् -१ ५७९ बहुगुडो द्राक्षा, बहुतैलं सुरा , बहुतृणं नरः । औपचारिकेऽपि क्वचित् स्वलिङ्गम् । कुन्तेन स्त्रिया, यष्ट्या पुरुषेण, गौः कलत्रम् । क्वचिदन्यथा - कोष्टुने अरण्याय । 'शिरो मेऽश्रि यशोमुखम्' इति भाष्यम् । अतो हि स्मरन्ति लिङ्गस्य लोकाश्रयत्वादिति ।। ८८ । ८९. न मनुष्यो लुपि लिङ्गम् मनुष्येऽर्थे कप्रत्ययस्य लुपि सति तत्प्रत्ययान्तस्य यदेकाधिकरणं तस्य तल्लिङ्गं न भवति । चञ्चा गौरः, खरकुटी श्यामः । इवार्थे कः, तस्य मनुष्ये लुप् । लिङ्गमिति किम् ? चञ्चाया गौरस्य रुजति ।। ८९। ९०. नपुंसकानपुंसकयोर्नपुंसकमेकवद् वा नपुंसकानपुंसकयोर्युगपदेकाधिकरणं नपुंसकलिङ्गं भवति, एकवच्च वा भवति । कुड्यं च पन्थाश्च शुक्ले, कुड्यं च पन्थाश्च शुक्लम् । कुड्यं च रथ्या च मृदुनी, कुड्यं च पन्थाश्च मृदु । हृदयं च जङ्घा च पाणिश्च दृढानि, हृदयं च जङ्घा च पाणिश्च दृढम् ।।९०। ९१. नित्यमसंख्यस्य असंख्यो धातुरव्ययं च स्वभावात्, तस्यैकाधिकरणं नपुंसकम् एकवच्च नित्यं भवति । मन्दं पचति शीघ्रमोदनः । पच्यते शीघ्रं भूतः । अव्ययस्य चेदं स्वः कामयते । भद्रं नमस्तस्मै । शुचिनि प्रातः, शुचिनि नक्तम् ।।९१। ९२. कर्मण्यप्रधाने दुहादिभ्यः दुहादिभ्योऽप्रधाने कर्मणि प्रत्ययो भवति । गौः पयो दुह्यते । गौः पयो दुग्धा, शिष्यो धर्ममुच्यते, शिष्यो धर्मं वाच्यः, पान्थः पन्थानं पृच्छ्यते, पान्थः पन्थानं पृष्टः । नाथः कम्बलं प्रार्थ्यते, नाथः कम्बलं प्रार्थितः, छात्रो निष्कं जीयते, छात्रो निष्कं जेतव्यः, ग्रामः शतं दण्ड्यते, ग्रामः शतं दण्डितः । जलधिरमृतं मथ्यते, जलधिरमृतं मथितः । शिष्यो धर्ममनुशिष्यते धर्ममनुशिष्टः । व्रजो गामवरुध्यते, व्रजो गामवरुद्धः । वृक्षः फलानि चीयते, वृक्षः फलानि चितः । इनन्तानामप्येषामियमेव व्यवस्था न चेत् प्रयोज्यं कर्म । दोह्यन्ते गावः पयो भृत्यैर्नाथेन । सति प्रयोज्यकर्मणि तत्रैव वाच्यते शिष्यं धर्म प्रजा आचार्येण । पञ्चमीनिर्देशात् षष्ठी तु द्वितीयावद् उभयोः । दोग्धा क्षीरस्य गवाम्, दोहः क्षीरस्य गवाम् ।।९२।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy