________________
परिशिष्टम् - १
८३. भ्रात्रा स्वसुः पुत्रेण दुहितुः
भ्रात्रा सह द्वन्द्वे स्वसुः, पुत्रेण सह द्वन्द्वे दुहितुर्लुग् भवति । भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । पृथङ् निर्देशः स्पष्टार्थः । पितराविति मातरपितरार्थं प्रकृत्यन्तरम् । द्वन्द्वे तु मातापितृभ्याम्, मातरपितृभ्याम्, मातरपितराभ्याम् इति रूपाणि त्रीणि । एवं श्वशुरौ । द्वन्द्वे तु श्वश्रूश्वशुराविति ॥ ८३ ॥ ८४. शेषपूर्वयोस्त्यदादिभिः
५७७
त्यदादिभिः सह द्वन्द्वे शेषस्यात्यदादेः पूर्वस्य च त्यदादेर्लुग् भवति । यश्च मैत्रश्च यौ । स च मैत्रश्च तौ । स च यश्च यौ । स चासौ च अमू । स च त्वं च युवाम् | त्वं च अहं च आवाम् । अहं च भवांश्च भवन्तौ || ८४ | ८५. किमा परस्य च
किमा सह द्वन्द्वे परस्यापि त्यदादेर्लुग् भवति । कश्च त्वं च कौ । कश्च अहं च कौ । कश्च भवांश्च कौ । यैर्दुर्युक्तिकदाशया सूत्राण्यमूनि प्रत्याख्यातानि तैरेषु उभयप्रयोगो दुर्निवारः। सरूपपर्यायाभ्यां द्वन्द्वः प्रायो नेष्येत इति । एकश्च एकश्चोभौ च द्वौ च । वृक्षादेस्तु द्विवचनबहुवचने एकवचनवत् प्रकृत्यनुपात्ते संख्याने स्यातामेव । पञ्चकपक्षेऽपि एकत्ववदनेकत्वमपि प्रकृत्यर्थ इति यथास्वमभिव्यञ्जकानि वचनानि स्युः । वृक्षौ, वृक्षाः । अनेकस्वार्थवशादनेकजातीयस्याभिधानमप्येकेन स्यादेव । यथा - अक्षाः, पादाः, माषाः । न चैकैकस्य वृक्षादेरेकैकस्वार्थवशादनेकसजातीयव्यक्तिनिवेशेऽनेकस्वार्थपरिग्रहे वा अक्षादिराजशासनभीरस्ति । किं च कृतेऽप्येकदेशेऽनेकार्थाभिधानोपपत्तिस्तदवस्थैव । न चार्थानन्त्येन यादानन्त्यात् साकल्याभिधानमेकशेषेण शक्यमिति || ८५ |
८६. प्रकृतिवच्छेषम्
लुकि सति शेषं यत्र या प्रकृतिस्तद्वद् भवति । स च यश्च असौ च अमी । द्वन्द्वस्थत्वान्न विभाषा । सा च या च ये । का च भवती च के । वृत्तौ सर्वनाम्नः पुंवत्त्वेऽपि पुनः स्त्रीत्वम्, कथं स च या च याविति चेन्मण्डूकप्लुत्या वा पुंवदनुवृत्तेः । एतच्च समासाश्रयकार्यनिषेधार्धम् अपदत्वार्थं च ||८६ |