SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् -१ ५७५ नीवृतिपुण्ड्रो भूम्नि इत्यपा जनपदे पुण्डमपीह पठन्त्येके । इह त्वविशेषः ‘सुदुर्व्वरः स्वादुरसो बृंहणस्तण्डुलो नवः' इति । असंख्यैकाधिकरणस्येति किम् ? एको बल्वजः, एका सिकता | भाष्यस्थितिरप्येवम् ।।७५। ७६. वाऽस्मदश्च असंख्यैकाधिकरणादन्यस्मादस्मदोऽबहुत्वे वा बहुत्ववद् भवति । वयम् अहम् आवां वा । असंख्यैकाधिकरणस्येति किम् ? एकोऽहम्, द्वावावाम्, अन्यैकाधिकरणस्य स्यादेव - श्यामा वयम्, श्यामाऽहम् । एते वयममी दाराः । 'वयं क्व वर्णाश्रमरक्षणोचिताः' । 'सम्पन्ना व्रीहयः' इति व्यक्तिभेदात् । 'सम्पन्नो व्रीहिः' इति अविवक्षितभेदत्वादैक्यम् । उक्तं हि भाष्ये - ता एव तिरोहितभेदा व्यक्तयो जातिरिति । व्रीहित्वादिजातौ तु बहुवचनं नारभ्यते इति । यदप्युक्तम् – एकस्यामेव जातौ न द्वयोर्तीहियवाविति, अत्रापि व्यक्तिषु तिलमाषाः हंसचक्रवाका इतीष्टम् । युष्मदो गुराविति स्मरन्त्येके | यूयं मे गुरवः, त्वं मे गुरुः । वचनव्यत्ययो बहुलमन्यत्रापि दृश्यते ।।७६। ७७. वा फल्गुन्योः प्रोष्ठपदयोस्तारके । फलेरुनट् गश्चान्तः फल्गुनी ह्रस्वादिः । तारके वृत्तयोः फल्गुन्योः प्रोष्ठपदयोश्च द्वित्वे वा बहुत्ववद् भवति । फल्गुन्यः, फल्गुन्यौ, प्रोष्ठपदाः, प्रोष्ठपदे । पूर्वफल्गुन्यः, उत्तरप्रोष्ठपदा इति चेच्छन्ति | तारक इति किम् ? फल्गुन्यौ कन्यके । संख्यैकाधिकरणयोस्तु द्वे फल्गुन्यौ, द्वे प्रोष्ठपदे । वाग्रहणमुत्तरत्र नित्यार्थम् ।। ७७। ७८. पुष्यार्थपुनर्वसुद्धन्द्ध द्विवद् बहुषु पुष्यार्थश्च पुनर्वसू च तेषां द्वन्द्वे बहुत्वे व्यर्थवद् भवति । पुष्यश्च पुनर्वसू च पुष्यपुनर्वसू । सिध्यपुनर्वसू । तिष्यपुनर्वसू । पुष्यार्थ इति किम् ? अश्विनीपुनर्वसवः । द्वन्द्व इति किम् ? पुष्यः पुनर्वसू येषां ते पुष्यपुनर्वसवः । बहुष्विति किम् ? एतत्तिष्यपुनर्वसुशेषो द्वन्द्वो हि वा समाहारे ||७८।। ७९. द्वन्द्वे लुग गोत्रेण यूनस्तन्मात्रवैषम्ये पौत्राद्यपत्यमिह गोत्रं गुर्वायत्तं गोत्रापत्यं युवेति च पूर्वाचार्यस्मरणात् । गोत्रेण सह द्वन्द्वे गोत्रयुवमात्रे कृते वैषम्ये यूनो लुग् भवति । गार्यश्च गार्यायणश्च गाग्र्यो, दक्षादिण् दाक्षिश्च दाक्षायणश्च दाक्षी । एक एवोभयार्थभाग् भवति । द्वन्द्व इति किम् ?
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy