________________
परिशिष्टम् -१
५६३ त्वभितः इति आभिमुख्यादौ निपातः । 'उभयतः' इत्यर्थे तद्धितान्तं च तत्राप्युभयग्रहणं भाष्यटीकाकृता व्याख्यातम् । एभिरिति किम् ? मध्यतो ग्रामस्य ।।२७।
२८. यावताऽऽङर्थेन इहाङर्थो मर्यादाऽभिविधिश्च । तत्र वृत्तेन योगे षष्ट्यर्थे द्वितीया भवति । नदी यावदरण्यानि, रथ्यां यावद् वृष्टो देवः । आङर्थेनेति किम् ? यावद् राज्ञः । ‘यावदेते हदि प्राणास्तावदाशा प्रवर्धते' इति षष्ठ्यर्थाभावाच्च ।अवध्यर्थेन यावता पञ्चमीमपीच्छन्ति - ‘ग्रामाद् यावदहं वोढा यावच्चैत्राद्धिमं महत्' ।।२८।
२९. अभिविधौ कालाध्वमानात् अभिविधिरभिव्याप्तिः साकल्येनाभिसम्वन्धः । तस्मिन् गम्यमाने कालाध्यमानाभ्यां द्वितीया भवति । मासं सुप्यतेऽनेन, मासौ सुप्येते, मासान् सुप्यते । मासमोदनः पच्यते, मासमधीता विद्या । ‘स सप्तरात्रं मनुजो भुञ्जीत लघुभोजनम्' । मासमासिता, मासं शीतो वायुः, मासं पाटलाः, क्रोशं छन्दोऽधीते । क्रोशं सुप्यतेऽनेन, क्रोशं वक्रः पन्थाः, क्रोशमरण्यानी । सकर्मकेषु द्वितीयार्थम् अकर्मकेषु च कर्मविधिविघातार्थं क्रियात्यन्तसंयोगेऽपि विधिरयमेष्टव्यः । गुणद्रव्यात्यन्तसंयोगे द्वितीयार्थमिति तु भाष्यम् ||२९।
३०. तृतीयाऽपवर्गे फलोदये क्रियासमाप्तिरपवर्गः । तत्र कालाध्वमानाभ्यामभिविधौ तृतीया भवति । मासेन शिक्षा अधीता | क्रोशेन वृत्तम् अधीतम् । कृत्स्नमासाध्ययनेन सुसंगृहीतेत्यर्थः । करणत्वाध्यवसाये सिध्यत्येव । यथा - वर्षेणाधीतमपि नाधिगतं छन्दः । अपवर्गेऽभिविधौ द्वितीया मा भूद् इत्यारम्भः ।।३०।
३१. वा कर्मणि संज्ञः संजानातेः कर्मणि तृतीया भवति वा । सुखेन संजानीते । सुखं संजानीते । स्मृतौ तु प्रियेण संजानाति, प्रियं संजानाति, प्रियस्य संजानाति । कृति तु भाष्यवार्त्तिकयोरपि षष्ट्येवेष्यते - सुखस्य संज्ञाता, प्रियस्य संज्ञाता ||३१|