SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः ॥ परिशिष्टम् - १ आचार्यश्री श्रीपतिदत्तप्रणीतम् कातन्त्रपरिशिष्टम् कारकप्रकरणम् १. अपादानम् आसंज्ञान्तरं संज्ञात्वेनेदमधिक्रियते || १ | २. व्याप्यं जेरप्रसहने अप्रसहनेऽशक्तावर्थे जयतेर्व्याप्यमपादानसंज्ञं भवति । रणात् पराजयते । तत् कर्तुं न क्षमते इत्यर्थः । अप्रसहने इति किम् ? शतं जयति, द्विषं पराजयते । अशक्त्या निवर्तनमिह पराजेरर्थः इति मते प्रत्याख्यातमिदम् । कथं पापाज्जुगुप्सते । गर्हया निवृत्तिरिह जुगुप्सेत्यन्वयनिवृत्तिरूपोऽस्त्येवापायः । गर्हायां तु जुगुप्सते माम् । तथा पापाद् विरमति, सुखाद् भ्रश्यति, पापान्निवर्तते, कर्मणः प्रमाद्यति । प्रमादो हि विहिताद् अर्थान्निवृत्तिः। अनवधानार्थे तु 'प्रामाद्यद् गुणिनां हिते' इति भट्टिः ||२| ३. कारणमुत्पत्तुः , उत्पत्तुः कर्तुः कारणमपादानसंज्ञं भवति । धर्मात् सुखमुत्पद्यते चक्राद् घटो भवति, बीजादङ्कुरो जायते तन्तुभ्यः पटः स्यात् । अविवक्षितकर्तृत्वादिभेदस्य कारणस्येयं संज्ञा । भेदे तु यथाऽध्यवसायं प्रयुक्तयः स्युः - बीजमङ्कुरो भवति, बीजेनाङ्कुरो भवति, बीजस्याङ्कुरो भवति, बीजेऽङ्कुरो भवति || ३ | I · ४. यत्र प्रकाशनं प्रभुवः प्रभवतेर्योगे यत्र प्रकाशनं तदपादानसंज्ञम् भवति । हिमवतो गङ्गा प्रभवति । प्रकाशनमिति किम् ? ग्रामे प्रभवति भृत्यः । प्रभुवः इति किम् ? हिमवत्याविर्भवति । अधिकरणापवादोऽयम् ||४ |
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy