SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५०८ कातन्त्रव्याकरणम् ३९५ .त्र सप्तम्याः [२।६।२९] [सूत्रार्थ] द्व्यादिभिन्न सर्वनामसंज्ञक तथा सप्तम्यन्त बहु शब्द से 'त्र' प्रत्यय विकल्प से होता है ।। ३९५ । [दु० वृ०] " अद्ध्यादेः सर्वनाम्नो बहोश्च सप्तम्यन्तात् त्रप्रत्ययो भवति वा । सर्वस्मिन् सर्वत्र । तस्मिन्, तत्र । यस्मिन्, यत्र । बहुषु, बहुत्र । अद्वयादेरिति किम् ? द्वयोः, त्वयि मयि । आद्यादिभ्यस्तस् वक्तव्यः। आदौ, आदितः । अन्ते, अन्ततः । पृष्ठे, पृष्ठतः । मध्ये, मध्यतः । अग्रे, अग्रतः । पार्श्वे, पार्श्वतः । मुखे, मुखतः । आकृतिगणोऽयम् || ३९५ | [दु० टी० ] त्र सप्तम्याः। योऽयमाद्यादिः स इहाकृतिगण इति । तेन नानापक्षाश्रये षष्ठ्यन्तात् तस् वा । देवा अर्जुनतोऽभवन्, अर्जुनस्य पक्षेऽभवन् वा । दैत्याः कर्णतोऽभवन्, कर्णस्य पक्षेऽभवन्निति । रोगाच्च प्रतीकारे । प्रवाहिकातः प्रतिकुरु, प्रवाहिकायाः प्रतिकुरु । न वक्तव्यमिदम् - रूढिशब्दा हि तद्धिता इति || ३९५ | [वि० प० ] त्र सप्त० । आद्यादिभ्यस्तस् वक्तव्य इति । वक्तव्यो व्याख्येयोऽभिधानाद् अन्यविभक्तयन्तादपि पूर्वेण तस् भवतीत्यर्थः ।। ३९५ । [क० च०] त्र सप्त० | अत्रापि “ङि : स्मिन् ” ( २/१/२७) इति वचनाद् विकल्पो लभ्यते इति । आद्यादिभ्य इति सप्तम्यन्तेभ्य इत्यर्थ । आद्यादिरयमाकृतिगणः, तेन नानापक्षाश्रयात् षष्ठ्यन्तात् तस् वा । देवा अर्जुनतोऽभवन् अर्जुनस्य वा । दैत्याः कर्णतोऽभवन् कर्णस्य वा । अर्जुनस्य कर्णस्य पक्षे इत्यर्थः । रोगाच्च प्रतीकारे । प्रवाहिकातः प्रतिकुरु, प्रवाहिकायाः प्रतिकुरु । रूढिशब्दा हीति टीका, अतः षष्ठ्याः पक्षाश्रयः इति न वाच्यम् ।। ३९५।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy