SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् " मन्त्रो हीनः स्वरतो बर्णतो वा' (पा०शि०, श्लो०५२) इति च दृश्यते । तथा आद्यादेराकृतिगणत्वाद् हीयमानेन पापेन युक्तात् तृतीयान्तात् तस् वा भवति । यथा वृत्ततो हीयते, वृत्तेन हीयते । वृत्ततः पापः, वृत्तेन पापः । नैवम्, पञ्चम्येव युक्ता । हेतौ करणे वा विवक्षया तृतीया गरीयसीति न च वस्तुभेदः । तथा शब्दा ये लोकतो रूढा इत्यपि दृश्यते | ‘रूढिशब्दा हि तद्धिताः' इति भावः । तथा प्रतिना योगे च - प्रद्युम्नो वासुदेवतः प्रति वासुदेवात् प्रति ।। ३९४ । " ५०६ [वि० प० ] पञ्चम्या० । पञ्चम्या इति नेयं षष्ठी । किन्तर्हि पञ्चमीत्याह - पञ्चम्यन्तादिति । यदि पुनः षष्ठी स्यात् तदा " विभक्तिसंज्ञा विज्ञेयाः" इति वचनमनर्थकमेव स्यात् । स्थानिवद्भावेऽनेनैव विभक्तित्वस्य सिद्धत्वात् । यद्येवं सिद्धं तत् साध्यम् ? नैवम् । सर्वेभ्यः सर्वत इति “घुटि बहुत्वे त्वे" (२/१/१९) इत्येत्वं स्यात् । एवं "त्र सप्तम्याः " (२/६/२९) इत्यादिष्वपि पक्षे विभक्तिस्थितिरर्थादित्याह - वेति । युष्मद्धीयते इति “अत् पञ्चम्यद्वित्वे” (२/३/१४) इति भ्यसोऽदादेशः । हीयते इति कर्मवद्भावादात्मनेपदम् | युष्मदर्थेन हीयमानः कर्म भूत्वा यदा त्यागे स्वयमेव कर्तृत्वेन विवक्ष्यते, तदा कर्मकर्तुः कर्मवद्भावादात्मनेपदम्, न तु केवले कर्मणि । न ह्यकर्तृकं कर्म सम्भवति । न चेह युष्मदर्थस्य कर्तृत्वम्, तस्यावधित्वेन विवक्षितत्वात् । तथा सार्थाद्धीनः इति । अकर्मकत्वात् कर्तरि क्तः। हीनो भ्रष्टः कुतः ? सार्थात् || ३९४ | [क० च०] पञ्चम्या० । “ङसिः स्मात् " ( २/१/२६) इति वचनबलाद् विकल्पो लभ्येत इत्याह – अथवेति । अद्व्यादेरिति किमिति । तर्हि कथं "सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः” (रघु० २ / ५५ ) इति रघुप्रयोगः । उच्यते - असर्वनाम्नोऽप्यवधिमात्रे तस् वक्तव्य इति वचनेऽपिशब्दाद् निषिद्धसर्वनाम्नोऽपि स्यात् । अत एव १. पस्पशाह्निके महाभाष्ये ( पृ० १९) 'दुष्टः शब्दः' इति पाठस्तस्यौचित्यं नागेशभटूटेन दर्शितम्" मन्त्रो हीनः स्वरतः" इति प्रसिद्धमपि शिक्षापाठं विहाय भाष्ये 'दुष्टः शब्द:' इति पठितं तत्रत्यमन्त्रशब्दस्य शब्दमात्रपरतेति सूचयितुम् ( उद्योत ० ) ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy