SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाप्याये षष्ठस्तद्धितपादः ४७९ किंवान्, लक्ष्मीवान्, क्रियावान्, विद्युत्वान्, पयस्वान्, भास्वान्, तेजस्वी, पयस्वी, दण्डी, मायी, मायावी । इतिशब्दोऽत्र विवक्षार्थः भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसङ्गेऽस्तिविवक्षायां मन्त्वादयो भवन्त्यमी ॥१॥ तथा मोपधमान्ताच्च धुडन्तादशिडन्ततः। अवर्णोपधतश्चापि वन्तुरवर्णतस्तथा ॥२॥ मायाशीर्षात् स्वरूपाच्च ब्रीहेरर्थात् स्वरूपतः। यथा व्रीहीति शालीति इन्ननेकस्वरादतः॥३॥ मायामेधामनो विन् स्याद् वाधिकाराद् विभाषया। विहिताः सर्व एवैते शेषेभ्यो मन्तुरिष्यते ॥४॥ द्वन्द्वनिन्दितरोगेभ्यः प्राणिस्थेभ्य इनेव हि। कटकवलयी कुष्ठी स्यात् काकतालुकी यथा ॥५॥ स्यात् स्वाङ्गात् तु यथाप्राप्तं स्तनकेशवती यथा। कः स्वार्थे नित्यमेवैषां वातोऽस्यास्तीति वातकी ॥६॥ अतीसारक्यपीदृक् स्यात् पिशाचकी तथा स्मृतः। कश्मलसोन्मत्तत्वे पिशाचशब्दोऽभिधीयते ॥७॥ वयसि गम्यमाने च पूरणान्तादिनेव हि। पञ्च दिनानि मासा वा पञ्चमी बालको यथा ॥८॥ सुखादिभ्य इनेव स्याद् बाहूरुभ्यां बलादपि । सुखी दुःखी अलीकी च करुणी कृपणी हली॥९॥ तृप्री कृच्छ्री प्रतीची च सोन्यस्यास्तीत्युदाहतम् । बाहुबल्यूएबली च सदिनित्यमिंस्तथा ॥१०॥ विज्ञेयं सर्वबीजीति सर्वकेशीत्युदाहृतम्। स्याद् धर्मशीलवर्णान्तादिन्नेवेति विवक्षया ॥११॥ ब्राह्मधर्मी सुशीली । ब्रह्मवर्णीत्युदाहृतम् ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy