SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४६० कातन्वव्याकरणम् सामसु साधुः । योग्ये – गुडे साधुरिक्षुः । हिते-दीने साधुः, इहोपकारकत्वात् तद्धितत्वं गम्यते । स खलु दीनानामुपकुर्वाणस्तेभ्यो हितो भवतीति । तत्र परत्वाद् "ईयस्तु हिते" (२/६/१०) इत्यादिना प्रवर्तितव्यमिति । कुशलो योग्यश्च साधुरिह गम्यते ।।३७५ । [क० च०] पुस्तकान्तरे पाठः [नावः । सम्मितेऽर्थे इति । परिच्छिन्नेऽर्थे इत्यर्थः । अपि चेति वचनादिति । न केवलं तुलयेति तृतीयान्तात् सम्मितेऽर्थे यप्रत्ययः । किं तर्हि तुल्यार्थेऽपि स्यात् । हस्ती गिरीणां तुलनां प्रत्यायातीति शेषः । तुल्यः सदृश इत्यन्य इति । एतन्मते तुलाशब्दाद् यप्रत्ययो भवति सम्मिते सदृशार्थे । यथा -गिरितुल्यः इति । अपि चेति वचनात्तु सम्मिते परिच्छिन्नेऽर्थेऽपि स्यात् तुलया संमितं तुल्यं सुवर्णादीत्याहुः । पञ्यां संभवतीति तरणे वध्ये च नौविषयोः साधकतमत्वेन प्रसिद्धत्वादित्याशयः । अथ नावो हेतोस्तरतीति पञ्चम्यन्तमपि संभवतीत्याह -साहचर्याद् वेति । शब्दप्रधाननिर्देशे किम्प्रमाणमित्याहपश्चाद् वा नाव इति । नावः । तार्यः, वध्यः इति । यतोऽनयोः साधकतमत्वात् प्रतीतिरतस्तरणे साधकतमत्वं नावः कर्तर्यपीति टीकायाम् । तत्पुनरिनन्तापेक्षया अतो नावः सकाशात् तार्यम् इत्यपि विवक्षातः स्यात् तत् कथमिदमुच्यते, अत आह - तुलयेति । तुलाशब्दात् तावत् तृतीयाबाधा न स्यात् । तत्साहचर्यान्नौशब्दादिति कथं नोच्यते, नैवम् । पण्यताव्यभिचारो यतस्तार्यसंबन्धे विवक्षावशाद् वृत्त्या पञ्चमी भवति । तुलयेति । तृतीयान्तो निर्देशो व्यर्थः । तुलयेति तृतीयान्तमनुकृतं लुप्तपञ्चम्येकवचनं पदम्, अपि च समुदायस्याव्ययत्वादेकवचनान्तमेवेदम् । तत्रेति । सप्तम्यन्तमनुकृतं लुप्तपञ्चम्येकवचनं पदम् । तुल्येत्यादि । अथ तुल्यसदृश इत्यन्य एव, तदा भवन्मते कथं गिरिणा तुल्य इति ? सत्यम् । अयमर्थोऽस्मन्मते तुल्यशब्देन परिमाणस्वरूपं गृह्यते, ततस्तुलया सम्मितं परिमाणसमं जातं तर्हि सादृश्ये कथं तत्राह -अपि चेत्यादि । अन्यः पुनः सदृशमेव तुल्यशब्दार्थमाह । भवन्मते समानार्थत्वं समानज्ञातम् । अथ तन्मते तुल्यशब्दस्य कोऽर्थः, न हि परिमाणविशेषस्तदा सादृश्यार्थानुपपत्तेः, तथा सादृश्यमेतत् - 'तुल्यं यदारोहति दन्तवाससा' इति । तर्हि यः सम्मितशब्देन सादृश्य उक्तः स्याद् ‘ऋश्येन सदृशः' इत्यनेन किं व्यावृत्तेरयोगात् ? सत्यम् । सादृश्यविशेष उच्यते न त्वल्पमिति ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy