SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् ४५२ एवम् ऐणिकः, शाफरिकः, शाकुनिकः, मायूरिकः । अजिह्मान् हन्ति । अनिमेयान् हन्तीति नाभिधानम् | परिपन्थं तिष्ठति च – पारिपन्थिकश्चौरः । पथ: परिपन्थो निपातनान्नकारस्थितिः । पन्थानं वर्जयित्वा हन्ति तिष्ठति च यः सः एवमुच्यते । उपसर्गसमासे तु सर्वान् पथो व्याप्य तिष्ठति हन्ति वा यः सः पारिपन्थिकः । माथान्तपदव्यनुपदाक्रन्दान् धावति - मथेर्भावे घञ् | दण्डसाधनो माथो दण्डमाथः पथिपर्यायो वा माथशब्दो दण्ड इव माथ ऋजुः पन्था उच्यते, तं धावति दण्डमाथिकः, पदवीं धावति पादविकः । अनुपदं धावति आनुपदिकः । आक्रन्दं धावति आक्रन्दिकः । आक्रन्दशब्द उक्तः । एते विरुदिते संप्रहारे च । पदान्तप्रतिकण्ठार्थललामं गृह्णाति पूर्वपदं गृह्णाति पौर्वपदिकः, प्रातिकण्ठिकः । प्रतिकण्ठमिति वीप्सायां लक्षणे वा अव्ययीभावः । प्रतिगतः कण्ठमिति तत्पुरुषविषये नाभिधानम् । आर्थिकः, लालामिकः । ललामो ध्वजश्चिह्न वा । गर्हिते च – द्विगुणं गृह्णाति द्वैगुणिकः । एवं त्रैगुणिकः । वृधुषीं गृह्णाति वार्धुषिकः । वृद्धिसमानार्थोऽयं वृद्धिं गृह्णातीति वाक्यमेवाभिधानात् । धर्माधर्मं चरति धार्मिकः, अधार्मिकः । चरतिरिह सेवायाम् । समूहार्थात् समवैति । समूहं समवैति सामूहिकः, सामाजिकः । ललाटं पश्यति लालाटिकः । ललाटदर्शनेन दुःखस्थानं लक्ष्यते, स्वामिनः कार्ये तु नोपयुज्यते इति भावः । कोपप्रसादचिह्नलक्षणाय ललाटमेव पश्यति वा । कुक्कुटीमाचरति कौक्कुटीकः । कुक्कुटीति दाम्भिकानां चेष्टोच्यते । कुक्कुटीं वा यः पश्यति स कौक्कुटिकः । कुक्कुटीशब्देन कुक्कुटीपादो लक्ष्यते, तेन देशस्याल्पता । यो भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति स एव - मुच्यते । परदारादीन् गच्छति पारदारिकः । गौरुतल्पिकः । परानुत्कृष्टान् दारान् गच्छति । गुरु महत्तल्पं गच्छति कर्मधारये नाभिधानम् । सुस्नातादीन् पृच्छति सौस्नातिकः, सौखरात्रिकः, सौखसुप्तिकः, सौखशय्यिकः । शोभनः स्नातो यस्येति बहुव्रीहौ नाभिधानम् | प्रभृत्यादीन् पृच्छति प्राभृतिकः, पार्याप्तिकः । माशब्द इत्याह - माशब्दिकः । एवं नैत्यशब्दिकः । वाक्याद - कण् । इतिना कर्मत्वमुक्तमिति न द्वितीया पदमात्रान्न दृश्यते । माशब्दमाह - वाक्ये शब्दमाहेति । अस्ति नास्ति दिष्टमिति मतिरस्य । अस्तीति मतिरस्य आस्तिकः, परलोककर्मफलमस्तीति यस्य मतिः स एवमुच्यते । तद्विपरीतश्च
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy