SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४४७ नामचतुष्टयाध्याये षष्ठस्तद्धितपादः २. हारिदम् । हरिद्रया रक्तम् । हरिद्रा +अण् +सि । पूर्ववत् प्रक्रिया । ३. पौषम् अहः । पुष्येण युक्तम् । पुष्य + अण् + सि । अनुबन्धलोप, आदिवृद्धि, यलोप तथा विभक्तिकार्य। ४. तैषमहः । तिष्येण युक्तम् । तिष्य + अण् +सि । पूर्ववत् । ५-६. वायसम् । वायसानां समूहः । वायस +अण् +सि । काकम् । काकानां समूहः । काक +अण् +सि । पूर्ववत् प्रक्रिया । ७-८. भैक्षम् | भिक्षाणां समूहः । भिक्षा +अण् +सि । यौवतम् । युवतीनां समूहः । युवती +अण् +सि । पूर्ववत् प्रक्रिया | ९-११. शैवः । शिवो देवता अस्य । शिव +अण् +सि । ऐन्द्रं हविः । इन्द्रो देवता अस्य । इन्द्र +अण् +सि । ऐन्द्रो मन्त्रः । इन्द्रो देवता अस्य । इन्द्र +अण् +सि | पूर्ववत् प्रक्रिया । १२-१३. छान्दसः। छन्दो वेत्त्यधीते वा । छन्दस् +अण्+सि । वैयाकरणः। व्याकरणमधीते वेत्ति वा | व्याकरण +अण् +सि । पूर्ववत् प्रक्रिया | १४-१५. मार्गम् । मृगस्येदम् । मृग +अण् +सि । शौकरम् । शूकरस्येदम् । शूकर +अण् +सि । पूर्ववत् प्रक्रिया । १६ - १७. चाक्षुषम् | चक्षुषा गृह्यते । चक्षुस् +अण् +सि | श्रावणः। श्रवणेन गृह्यते । श्रवण + अण् +सि । पूर्ववत् । १८. दार्षदाः सक्तवः । दृषदि पिष्टाः । दृषद् +अण् +जस् । पूर्ववत् । १९. औदूखलाः मुद्गाः । उदूखले क्षुण्णाः । उदूखल +अण् +जस् । पूर्ववत् । २० - २१. आश्वो रथः । अश्वैरुह्यते । अश्व +अण् +सि | चातुरं शकटम् | चतुर्भिरुह्यते । चतुर् +अण् +सि | पूर्ववत् । २२. चातुर्दशं रक्षः। चतुर्दश्यां दृश्यते । चतुर्दशी + अण् +सि । पूर्ववत् | [विशेष वचन १. रागयोगाद् राग इति । एतेन किमुक्तम् - अभेदोपचारोऽऽत्राभिधातव्यः । यथा दण्डयोगाद् दण्डः पुरुष इति (दु० टी०)। २. रूढिशब्दा हि तद्धिता इति (दु० टी०)।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy