SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४०२ कातन्त्रव्याकरणम् ३६३. पुरुषे तु विभाषया [२/५/२६] [सूत्रार्थ] तत्पुरुषसमास में पुरुष शब्द के परवर्ती होने पर कु-शब्द को वैकल्पिक काआदेह होता है ।।३६३। [दु० वृ०] कुशब्दस्य तत्पुरुषे पुरुषशब्दे च परे विभाषया कादेशो भवति । कापुरुषः, कुपुरुषः । इयमप्राप्ते विभाषैव । ईषदुष्णम्-कोष्णम्, कवोष्णम्, कदुष्णम् इति वक्तव्यम् ।।३६३। [दु० टी०] पुरुषे० । नन्वीषदर्थे नित्यं प्राप्तः कुत्सितार्थे त्वप्राप्त एव कादेशः तत्रोभयत्र विभाषा युक्तेति । न चोद्यम् नात्र विभाषा विधेया, किं तर्हि कादेशः, स चाप्राप्तः कुत्सितार्थ एवेत्याह - इयमित्यादि । वाग्रहणे विधेयत्वाशङ्का स्यादित्यनव्ययो विभाषाशब्दस्तृतीयान्त उच्यते । विपूर्वाद् भाषतेः “गुरोश्च निष्ठासेटः" (४/५/८१) इत्या ययः। कादेशस्तावत् सिद्ध एवेत्याह-कवोष्णमित्यादि । उष्णशब्दे कवादेशः कदादेशश्चेति वक्तव्यं व्याख्येयं लोकोपचारादित्यर्थः ।।३६३। [वि० प०] पुरुषे० । इयमित्यादि । ननु कथमवधारणमीषदर्थे नित्यं प्राप्तः कुत्सितार्थे त्वप्राप्त एव कादेशः, ततश्चोभयत्र विभाषा युक्तेति ? सत्यम् । विभाषयेति तृतीयानिर्देशादिह कादेशस्य विधेयत्वं न विभाषायाः । यच्च विधेयं तदप्राप्तमेवेति मन्यते । ईषदित्यादि । नित्यं कादेशे प्राप्ते कवादेशः कदादेशश्चोष्णशब्दे विधीयते । वक्तव्यमिति व्याख्येयम्, लोकोपचारादित्यर्थः ॥३६३ । [क० च०] पुरुषे० । विपूर्वाद् भाषतेर्गुरोश्च निष्ठासेट इत्यप्रत्यये सति विभाषेति रूपम् । कादेशस्तावत् सिद्ध एवेत्याह - कवोष्णम् इत्यादि । पञ्ज्यां न विभाषेति अन्यथा वेति कृते सिध्यतीति भावः ।।३६३।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy