SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ॥श्रीः॥ अथ द्वितीये नामचतुष्टयाध्याये चतुर्थः कारकपादः २८६. अव्ययीभावादकारान्ताद् विभक्तीनाममपञ्चम्याः [२।४।१] [सूत्रार्थ] अकारान्त अव्ययीभाव समास से परवर्ती विभक्ति के स्थान में 'अम्' आदेश होता है, पञ्चमी विभक्ति को छोड़कर ।।२८६ । [दु० वृ०] अव्ययीभावसमासादकारान्ताद् विभक्तीनां स्थानेऽम्भवति अपञ्चम्याः । उपकुम्भम् ।अव्ययीभावादिति किम् ? कष्टश्रितः ।विभक्तीनामिति किम् ? उपकुम्भता । अपञ्चम्या इति किम् ? उपकुम्भात् ।। २८६ । [दु० टी०] अव्ययी० । अव्ययीभावोऽत्र सूत्रे विशेष्यः । अकारान्त इति विशेषणं चेत् किमन्तग्रहणेन, 'येन विधिस्तदन्तस्य' (का० परि० ३) इत्यकारान्ताद् भविष्यति ? सत्यम् । अन्तग्रहणमिह प्रकरणे तदन्तविधिर्नास्तीति ज्ञापयति, तेनाव्ययीभावान्तादम् न भवति – 'बहूपकुम्भौ, अत्युपकुम्भौ' इति । तथा “अन्यस्माल्लुक्" (२।४।३) इत्यत्रापि 'बहूपवधूः, अत्युपवधूः' इति । तथा अव्ययाच्च – 'बहूच्चैसौ, अत्युच्चैसौ' इति । तर्हि कथं ‘परमोपकुम्भम्, परमोपवधु, परमोच्चैः' इति ? किञ्चाकारात् श्रुतमन्तग्रहणं कथं पुनः प्रकरणस्य नियामकमिति ? तस्मात् प्रधानादिति वक्तव्यम् । न च वक्तव्यम् ‘गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः' (का० परि० २) इतीहाश्रयणात्, विहितविशेषणाद् वा अव्ययीभावाद् विहितानां विभक्तीनामेव, एवं वक्ष्यमाणयोरपि । कथं 'परमोपकुम्भम्', कर्मधारयाद् विहितात्र विभक्तिरिति । नैवम् । विभक्तिरर्थमाश्रित्योत्पद्यते, स चार्थोऽव्ययीभावस्येति न विरुध्यते इति ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy