SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये पञ्चमः समासपादः ३३७ क्तेन समस्यते, अभिधानात् । तत्रकृतम्, तत्रभुक्तम् । इह समासे सत्येकपदत्वम्, तस्मिन् सति समासान्तरं तद्धितोत्पत्तिश्च फलम् । वाक्ये त्वपेक्षावति कथं स्यात् । तथा क्षेपे 'अवतप्ते नकुलस्थितम्' । इहाप्युपमानतया क्षेपो गम्यते । यथा अवतप्ते देशे नकुलश्चिरं स्थाता न भवति, तद्वद् यः कार्यमारभ्य चिरं न तिष्ठति स एवमुच्यते । एवम् ‘उदके विशीर्णम्, प्रवाहे मूत्रितम्, भस्मनि हुतम्' । निष्फलं यदनुष्ठितम्, तदेवमुच्यते । तथा "पात्रेसमितादयश्च" (अ० २।१।४८)। शिष्टप्रयोगानुसारेण क्षेपे समासशब्दा वेदितव्याः । यथा- पात्रेसमिताः, पात्रेबहुलाः। इहावधारणेन क्षेपो गम्यते। पात्र एव समिताः, न पुनरन्यस्मिन् क्वचित् कार्ये इत्यर्थः । एतेषु “तत्स्था लोप्या विभक्तयः" (२।५।२) इति सप्तम्या लोपो न भवति, अभिधानात्। एवं 'पिण्डीशूरः' इत्यादयोऽपीत्याह- एवम् अन्यत्रापीति । कथमित्यादि । "प्राप्तापन्ने च द्वितीयया" (अ० २।२।४) । तथा अत्यादयः क्रान्ताद्यर्थवृत्तयो द्वितीयादिविभक्त्यन्तैः समस्यन्ते इति न वक्तव्यम् इति भावः । अत्यादीनां नित्यसमासत्वात् पदान्तरेणातिक्रान्तः इत्यादिनाऽर्थं कथयति। सत्यमित्यादि । जीविकां प्राप्त इत्यादि विग्रहः कार्यः । स्त्रियां तु 'जीविकां प्राप्ता' इत्यादिविग्रहे पूर्वनिपाते सति "याकारी स्त्रीकृतौ हस्यौ क्वचित्" (२।५।२९) इति ह्रस्वः। ‘राजदन्तः' इति दृष्टान्तमुपन्यस्य "राजदन्तादिषु परम्" (अ० २।२।३१) इत्यपि न वक्तव्यम् इति दर्शयति । अनेनैव न्यायेन तस्यापि सिद्धत्वादिति । अथवा नेहादृतः स्वरविशेष इति प्राप्तापन्नयोर्बहुव्रीहिणा सिध्यति। प्राप्ता जीविका येन, आपन्ना जीविका येनेति अर्थस्याभेदात् । इदं पुनरभ्युपगमवादेन दर्शितम्। इह तु द्वितीयासमासोऽपीष्यते यथा 'जीविकां प्राप्तः, जीविकामापन्नः' इति यथायोगम् ‘अतिक्रान्ता खट्वा येन, अपक्रुष्टं कोकिलया यत्र' इत्यादि विवक्षया न साध्यक्षतिरिति । अत्यादयः' इत्यादिशब्देनापरेऽपि वृद्धप्रयोगानुसारेण वेदितव्याः । यथा उद्गतो वेलाम् उद्वेलः समुद्रः। परिणद्धो वीरुधा परिवीरुत् । संनद्धो वर्मणा संवर्मा। उद्युक्तः संग्रामाय उत्संग्रामः। अपगतः शाखायाः अपशाखः इति। तथा “कुगतिप्रादयः" (अ० २।२।१८) इति न वक्तव्यम्, तुल्याधिकरणत्वात् कर्मधारयेणैव सिध्यति इत्याह - कुब्राह्मणेत्यादीनामिति । कुशब्दोऽयमव्ययः कुत्सितार्थः। कुत्सितो ब्राह्मणः कुब्राह्मणः इति पदान्तरेणैव तुल्याधिकरणत्वं दर्शनीयम् । एवमीष
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy