________________
कातन्त्रव्याकरणम्
सूत्रम् । एको देशः प्रदेशो यस्येति बहुव्रीहिणा एकादेशशब्दोऽवयवमभिधत्ते, अत एव मत्वर्थीयोऽपि सिध्यति। स हि कर्मधारयादेव नेष्यते । कर्मधारयमत्वर्थीयबहुव्रीहिरेवेष्टी लघुत्वादिति कात्यायन-वचनादिति रक्षितः । तन्न, न्यासकृतस्तु कर्मधारयादेवायं मत्वर्थीयः, कात्यायनवचनस्य नात्र विषयः, एकदेशशब्दस्य योगार्थापेक्षेण अवयवे रूढित्वादिति।‘नीलोत्पलवत्सरः' इतिवद् मत्वर्थीय इत्याहुः । तथा चायमर्थः - एकदेशिनः एकदेशापेक्षितया पूर्वादयः एकदेशवचना एव समस्यन्ते इत्यर्थादेव गम्यते । पाणिनिसूत्रे एकाधिकरण इति तृतीयार्थे सप्तमी, व्यत्ययो बहुलमिति वचनात् । तथा चात्र एकदेशिना समानाधिकरणेनेत्यर्थः । अन्ये तु नात्र तृतीयार्थे सप्तमी, किन्तु एकदेशिना एकाधिकरणे वर्तमानान्येतानि समस्यन्ते इति योजनया एकदेशिनः एकाधिकरणलाभ इत्याहुः । अतः फलितार्थ एवैकाधिकरणेत्यनेन टीकाकारेणोक्तः । तन्न एकाधिकरणशब्दोऽत्र द्रव्यवाचकः एकसंख्याविशिष्टं द्रव्यमेकाधिकरणमिति न्यासदर्शनात् ।
३१४
यद्यपि अवयवावयविनोराधाराधेयभावो विद्यते, तथापि सप्तम्यन्तेन न समासः, आधाराधेयभावस्य बाह्यक्रियापेक्षया बहिरङ्गत्वात् । यथा 'वृक्षे शाखा तिष्ठति' अयं ‘राज्ञः पुरुषः' इत्यादौ क्रियापदं विनापि वाक्यं निराकाङ्क्ष दृश्यते, तद्वद् यदि पूर्वं कायस्येति क्रियानिरपेक्षं वाक्यं स्यात् तदा षष्ठीसमासबाधकमिदं सूत्रम् । षष्ठ्यन्तस्य पूर्वपदस्य निषेधार्थं पूर्वकायो दृश्यताम् इत्यत्र यद्यपि सन्निहितं त्रयं समुदाय एकदेशो दर्शनक्रिया च निर्धारणहेतुस्तथापि समासः प्रवर्तते, न तु “ निर्धारणे " ( २ | ४ | ३६) इति निषेधः, षष्ठ्यन्तस्य पूर्वपदस्य च समासनिषेधकालेऽर्थद्वयस्यैव विवक्षितत्वात्। येषां पूर्व वाक्यं क्रियासमाप्यमिति दर्शनम्, तेषां निषेधबाधकोऽयं योग इति मैत्रेयः । “अर्धं नपुंसकम् ” (अ० २ । २ । २ ) इत्यस्यायमेवार्थः षष्ठीसमासविधानार्थम् “अर्ध नपुंसकम्” (अ० २।२।२) इति पाणिनिसूत्रं खण्डितम् । 'जातस्य मातः' इति षष्टीसमासविधानार्थं सूत्रान्तरं खण्डयति - कालवाचिनः शब्दाः इत्यादि ।
ननु अस्मन्मते 'मासपरिमाणे जातः' इति परिमाणी समासार्थः । परमते परिमाणं मास इति परिमाणमेव समासार्थः इत्यर्थभेदात् कथं तत्सूत्रखण्डनमिति ? सत्यम् । परमतेऽपि वाक्येन परिमाणार्थप्रतीतावपि रूढिवशात् समासेन परिमाण्येवाभिधीयते । तथा च श्रीपतिः-‘जातस्य मासः' इति मतेऽपि स्वभावात् परिमाण्येव समासार्थ इति भाष्यादावूरीकृतत्वाद् इह नार्थो भिद्यते' इत्याचष्टे । तस्माद् उभयथैव परिमाण्येव