SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३०५ नामचतुष्टयाभ्याये पनमः समासपादः इत्यादिशब्दद्वयस्य एकदा प्रयोग एव न विद्यते । तत् किं लक्षणे भिन्नप्रवृत्तिनिमित्तत्वे सतीति विशेषणेन व्यवच्छिद्यते ? सत्यम् | स्वरूपकथनमेवेति न्यासः। द्वन्द्वे सर्वेषामेव पदानां सहितत्वप्रवृत्तिनिमित्तत्वेन सर्वार्थवाचकत्वात् पट्वीमृद्व्यौ स्त्रियौ इत्यत्र "भाषितपुंस्कानूडू" (अ० १।२।६६) इत्यादिना पुंवद्भावनिषेधार्थं तद्विशेषणमिति रक्षितः। नवीनास्तु शब्दस्यानेकार्थवाचित्वे सन्देहोच्छेदाय हरिः सिंह इत्यादौ विशेषप्रवृत्तिनिमित्तकस्य सिंहादिशब्दस्य प्रयोग इष्यते । यथा 'उत्सुकानीव मे स्वा हि जातयो भरतर्षभ!' इति । तत्र कर्मधारयनिषेधार्थमेतद् विशेषणमित्याहुः । ननु नाम्नां युक्तार्थः समासः, युक्तार्थता च सम्बन्धार्थत्वे सत्येव भवति । संबन्धार्थत्वं चोपकार्योपकारकभावे सत्युपपद्यते । न च नीलमुत्पलमिति वाक्ये परस्परोपकारितास्ति अन्योऽन्यानपेक्षितत्वात् । तथाहि नीलशब्दो विदितविशेषनीलगुप्पाधारे द्रव्ये वर्तते, उत्पलशब्दश्चाज्ञातगुणोत्पलाख्ये द्रव्ये वर्तते, तत् कथं समासस्य विषय इत्याह - नीलं विशेषणम्, उत्पलं विशेष्यमिति । ननु कथमिदमुच्यते, यावता विशेषणत्वं हि तद्गतत्वे सति तन्निष्ठव्यावृत्तिधीजनकत्वम् । विशेष्यत्वं च तदाश्रयत्वे सति तज्जन्यव्यावृत्तिधीविषयत्वम् । यथा घटत्वविशिष्टो घट इति । [घटत्वं घटगतं सद् घटनिष्ठस्यात्मनो व्यावृत्तिबुद्धिं जनयति, अन्यत्र गवादौ, न तथा नीलत्वम्, उत्पलगतं सद् उत्पलनिष्ठस्यात्मनो व्यावृत्तिबुद्धिमन्यत्र जनयति । अलिकज्जलादेरपि तद्गुणस्य प्रतीयमानत्वात] । ___ तदिह नीलोत्पलादौ न संभवति, नीलगुणविशिष्टस्योत्पलगतत्वेनाप्रतीयमानत्वात् । न हि नीलगुणविशिष्टद्रव्यमुत्पले वर्तितुमुत्सहते नीलोत्पलप्रतिपाद्यार्थस्याभिन्नत्वात् ? सत्यम् । शाब्दोऽत्र विशेषणविशेष्यभावोऽङ्गीकर्तव्यः । शाब्दं विशेषणत्वं सामान्यवाचकशब्दस्य स्वार्थमात्रावच्छेदेनार्थोपस्थापकत्वम् । तथाहि सामान्यवाचकस्योत्पलस्यार्थी नीलशब्देन स्वार्थनीलगुणावच्छेदेनोपस्थाप्यते इति नीलं विशेषणम् । शाब्दं विशेष्यत्वं च सामान्योपस्थापकत्वे सति शब्दान्तरसन्निधानेन तदर्थपर्यवसायित्वम् । तथाहि सामान्योत्पलद्रव्यवाचिना उत्पलशब्देन नीलशब्दसान्निध्यान्नीलशब्दप्रतिपाद्यं नीलगुणविशिष्टम् उत्पलम् उपस्थाप्यते इति उत्पलं विशेष्यम् । नन्वेवं सति 'तक्षकः सर्पः' इत्यादौ न कथं समासः, सामान्यवाचकस्य सर्पशब्दस्य तक्षकत्वावच्छेदेनार्थोपस्थापकत्वेन तक्षकस्य विशेषणत्वात्, एवं सर्पस्यापि विशेष्यत्वाच्च ?
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy