SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २८८ कातन्त्रव्याकरणम् त्रीणि । उत्पलत्वं जातिः, द्रव्यं च तदाश्रय इति द्वे । तत्र नीलजात्युत्पलजात्यो स्ति विशेषणविशेष्यभावो निर्गुणत्वात् । गुणकर्मसामान्यविशेषसमवायानां गुणादीनां पञ्चानामपि निर्गुणत्वनिष्क्रियत्वे इति । नीलत्वस्य च नीलगुणे समवाय उत्पलत्वस्य चोत्पलद्रव्ये इति तुल्याधिकरणत्वमपि नास्ति । उत्पलजातेर्नीलगुणस्य चास्ति तुल्याधिकरणता खल्चेकद्रव्यसमवायाद् विशेषणविशेष्यभावस्तु नास्ति जातेरनीलत्वाद् गुणद्रव्ययोस्तु संभवति विशेषणविशेष्यभावो द्रव्यस्यानेकगुणत्वात् । समानं तु तयोरपरमधिकरणं तृतीयं न विद्यते द्रव्ये गुणस्य समवायात् । नीलद्रव्योत्पलद्रव्ययोरपि न विशेषणविशेष्यभावो नापि तुल्याधिकरणत्वम्, इतरेतराभिसंबन्धाद् इति । अन्यस्त्वाह - जातिगुणयोरुत्पलत्वनीलगुणयोरेकस्मिन्नर्थेऽवयविनि उत्पलद्रव्ये समवेतयोः शब्दे जातिगुणयुक्तद्रव्याभिधायिनि नीलोत्पलमिति वृत्तिः । तस्माद् गुणद्रव्ययोर्विशेषणविशेष्यभावो जातिगुणयोरेकाधिकरणत्वात् तद्वाचिनोः पदयोस्तुल्याधिकरणत्वम् उभयोर्जातिगुणोपसर्जने द्रव्ये प्रवृत्तत्वादिति । येषां खलु रूपरसादीनां सत्यप्येकार्थ (प्यनेकार्थ)-समवाये आश्रयो द्रव्यं बीजपूरादि, सोऽयमित्यभिसंबन्धेन रूपरसादिशब्दै भिधीयते इति । रूपं बीजपूरो रसो बीजपूर इति परस्परानुपकारात् ते द्रव्याभिधानमन्तरेणैव केवलानां रूपरसादीनां वाचका द्वन्द्वसमासभाविनो न कर्मधारयसमासयोग्या इति । उक्तं च - संस्तु रूपरसादीनामाश्रयो नाभिधीयते । द्रव्याभिधानेन विना ततस्ते द्वन्द्वभाविनः॥ (वा० प० ३।१४।२३) इति । किमेतेन वा वस्तुविचारेण, शब्दप्रमाणका हि वैयाकरणाः। यच्छब्द आह स तस्यार्थः । यद्यपि नीलोत्पलाख्यो द्रव्यात्मा बाह्य एकरूपस्तथापि गुणेन नीलेन संसर्गो यस्तभेदात् सोऽपि भिन्न इवोत्पलमिति जातिसंबन्धेन भेदादपरो द्वितीय इव विशिष्टजातीयोऽनवगतगुणो गृह्यते । ततो गुणजात्यभिधानेनैवाभिसंबन्धानानात्वं प्रकल्प्यते। तस्य बाह्यस्य द्रव्यस्यापरा तृतीयावस्था बुद्ध्या गृहीता नीलरूपा जातिगुणाभ्यामसंसृष्टा केवलम् इदं तदिति सर्वनामपदनिर्देश्या विशेषणविशेष्याख्ययोः पदयोराश्रयत्वे तुल्याधिकरणम् इदम् - एतयोरिति भाव्यते स्फोटवदिति यस्यामेतदुभयं संसृज्यते (गृह्यते) नीलं च तदुत्पलं चेति । उक्तं च, द्रव्यात्मा गुणसंसर्गभेदादात्रीयते पृथक् । जातिसंबन्धभेदाच्च द्वितीय इव गृह्यते ॥
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy